SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [नानार्थवर्गः गोत्रांतेभ्यस्तस्य दमित्यौपगवकादिकम् ।। आपूपिकं शाष्कुलिकमेवमाद्यमचेतसाम् ॥ ४०॥ माणवानां तु माणव्यं सहायानां सहायता ॥ हल्या हलानां ब्राह्मण्यवाडव्ये तु दिजन्मनाम् ॥ ११ ॥ द्वे पर्युकानां पृष्ठानां पार्श्व एष्ठयमनुक्रमात् ॥ खलानां खलिनी खल्याऽप्यथ मानुष्यकं नृणाम् ॥१२॥ ग्रामता जनता धूम्या पाश्या गल्या पृथक्टथक् ॥ . अपि साहस्रकारीषवार्मणाथर्वणादिकम् ।। ४३॥ ॥इति संकीर्णवर्गः ॥ नानार्थाः के ऽपि कांतादिवर्गेष्वेवात्र कीर्तिताः ।। पगवकादिकं स्यात् । यथा । उपगोरपत्यानि पुमांसः औपगवास्तेषां समूह औपगवकम् । गोत्रोक्षेति वुञ् अकादेशेन साधुः । आदिशब्दाद्गार्गकं दाक्षकमित्यादि । एकैकम्। इतःपरमावर्गसमाप्तेवृंदमित्यधिकारः। अचेतसां जडानां अपूपादीनां बंदं आपूपिकम्। शाष्कुलिकम् । साक्नुकम् । इत्यादि एकैकम् । अचित्तहस्तिधेनोष्ठगिति सूत्रेणेमे साधवः ॥ ४०॥ माणवानां समूहो माणव्यम् । माणवा बालाः । सहायाः सखायस्तेषां समूहः सहायता । हलानां समूहो हल्या एकैकम् । ब्राह्मण्यं पाडव्यं वे ब्राह्मणानां समूहस्य ॥४१॥ पशुका अस्थिविशेषास्तासां समूहः पार्श्वम् । पृष्ठानां समूहः पृष्ठयम् । यज्ञविषये ऽदः स्मरंति । खलिनी खल्या द्वे खलानां समूहस्य । नृणां मनुष्याणां समूहो मानुष्यकम् ॥४२॥ ग्रामाणां समूहो ग्रामता जनानां समूहो जनता । धूमानां समूहो धूम्या । पाशानां समूहः पाश्या । गला बृहत्काशास्तेषां समूहो गल्या । सहस्राणां समूहः साहस्रम् । करीषाणां समूहः कारीषम् । कारीष शुष्कगोमयम् । वर्मणां समूहः वार्मणम् । वर्म कवचम् । अथर्वणां समूहः आथर्वणम् । एकैकम् । आदिशब्दाचामणमांगारं चामिणमित्यादि । चर्मिणां समूहश्वामिणम् ॥ ४२ ॥ इति संकीर्णवर्गः ॥ ॥७॥ ॥ अथानेकार्थवर्गः । ननु किमर्थमनेकार्था आरभ्यते । तेषां प्रागुक्तवर्गेष्वभिहितत्वात् । यद्यत्र वक्ष्यंते तईि For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy