________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२१ तृतीयं कांडम्.
२८३ धीशक्तिनिष्कमो ऽस्त्री तु संक्रमो दुर्गसंचरः॥ २५॥ प्रत्युक्रमः प्रयोगार्थः प्रक्रमः स्यादुपक्रमः॥ स्यादन्यादानमुद्धात आरंभः संभ्रमस्त्वरा ॥ २६ ॥ प्रतिबंधः प्रतिष्टंभो ऽवनायस्तु निपातनम् ॥ . उपलंभस्त्वनुभवः समालंभो विलेपनम् ॥ २७॥ विप्रलंभो विप्रयोगो विलंभस्त्वतिसर्जनम् ।। विश्रावस्तु प्रतिख्यातिरक्षा प्रतिजागरः ॥२८॥ निपाठनिपठौ पाठे तेमस्तेमौ समुंदने ॥
आदीनवासवौ क्लेशे मेलके संगसंगमौ ॥ २९ ॥ चैव ग्रहणं धारणं तथा । ऊहापोहौ चं विज्ञानं तत्वज्ञानं च धीगुणा इति ।" संक्रमः दुर्गसंचरः द्वे दुर्गमार्गस्य । “ दुर्गादिप्रवेशक्रियाया वा।" संक्रमते संक्रम्पते वा ऽनेन संक्रमः । स न स्त्रियाम् । “दुर्गसंचार इत्यन्यत्र" ॥२५॥ प्रत्युक्रमः " प्रत्युक्रांतिरित्यपि” प्रयोगः द्वे युद्धार्थमतिशयितोद्योगस्य । प्रयोगोऽर्थो यस्य सः । “ प्रयुद्धार्थ इत्यपि पाठः । प्रत्युक्रमः प्रयुद्धार्थ इति भागुरिः ।" प्रक्रमः उपक्रमः द्वे प्रथमारंभस्य । अभ्यादानं उद्धातः आरंभः त्रयमारंभमात्रस्य । यलक्ष्यम् । उद्धातः प्रणवो यासामिति । प्रक्रमादिपंचाप्येकार्था वा । संभ्रमः त्वरा द्वे संवेगस्य | आवेगस्तु त्वरा त्वरीति वाचस्पतिः ॥ २६ ॥ प्रतिबंधः प्रतिष्टंभः द्वे कार्यप्रतिघातस्य । यथा मणिमंत्रादिप्रतिबंधादग्नेरनुष्णतेति । अवनायः निपातनं “नियातनमित्यपि पाठः” द्वे अधोनयनस्य । उपलंभः अनुभवः द्वे साक्षात्कारस्य । समालंभः विलेपनं द्वे कुंकुमादिना विलेपने ॥ २७ ॥ विप्रलंभः विप्रयोगः द्वे रागिणोविच्छेदस्य । विलंभः अतिसर्जनं द्वे अतिदानस्य । विश्रावः प्रतिख्यातिः “प्रविख्यातिरित्यपि" द्वे अतिप्रसिद्धेः । अवेक्षा प्रतिजागरः द्वयं वस्तूनां अवेक्षणस्य ॥ २८ ॥ निपाठः निपठः पाठः त्रीणि “पठनस्य ।" तेमः स्तेमः समुंदनं त्रयमार्दीभावस्य । आदीनवः आस्रवः क्लेशः त्रीणि क्लेशस्य । आस्रवतींद्रियाण्यनेनेति । आश्रवस्तालव्यमध्य इति केचित् । मेलकः संगः संगमः त्रीणि “संगमस्य । ना मेल: संगमो ना वेत्यमरमाला" ॥ २९॥ संवीक्षणं
For Private And Personal