________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२७४
सटीकामरकोशस्य विशेष्यनिघ्नवर्गः दांतस्तु दमिते शांतः शमिते पार्थिते ऽर्दितः॥९७॥ ज्ञप्तस्तु ज्ञपिते छन्नश्छादिते पूजिते ऽचितः॥ पूर्णस्तू पूरिते क्लिष्टः क्लिशिते ऽवसिते सितः॥९८॥ पुष्टप्लुटोषिता दग्धे तष्टत्वष्टौ तनूकृते॥ वेधितच्छिद्रितौ विद्धे विनवित्तौ विचारिते ॥ ९९॥ निष्प्रभे विगतारोकौ विलीने विद्रुतद्रुतौ ॥ . सिद्धे निवृत्तनिष्पन्नौ दारिते भिन्नभेदितौ ॥ १०॥ ऊतं स्यूतमुतं चेति त्रितयं तंतुसंतते ॥
स्यादहितेनमस्थितनमसितमपचायितार्चितापचितम् १०१ नाथः” उद्गतः द्वे " वमनेन त्यक्तस्यान्नादेः।” दांतः दमितः वे दमं प्रापितस्य । यथा दमितमिंद्रियम् । शांतः शमितः वे शमन प्रापितस्य । यथा शांतो रोगः निवर्तित इत्यर्थः । प्रार्थितः अर्दितः द्वे याचितस्य । अदितं याचितेऽपि स्याद्वातव्याधौ च हिंसिते इति कोशांतरे ॥ ९७ ॥ ज्ञप्तः ज्ञपितः द्वे “बोधं प्रापितस्य ।" छन्नः छादितः द्वे " आच्छादितस्य ।” पूजितः अंचितः "अर्चित इत्यपि पाठः । अर्च पूजायां" दे। पूर्णः पूरितः द्वे । वादांतशांतपूर्णेत्यादिना णिचि निष्ठांता निपातिताः । क्लिष्टः क्लिशितः द्वे क्लेशं प्राप्तस्य । अवसितः सितः द्वे समाप्तस्य । षों ऽतकर्मणीत्यतो निष्ठा ॥ ९८ ॥ ग्रुष्टः प्लुष्टः उषितः दग्धः चत्वारि दग्धस्य । तष्टः त्वष्टः तनूकृतः त्रीणि “ अतनुस्त नुरकारि तनूकृतः ।" यथा तष्टं काष्ठं शस्त्रेणाल्पीकृतमित्यर्थः । वेधितः छिद्रितः विद्धः त्रीणि । यथा कर्णौ विद्धौ । विन्नः वित्तः विचारितः त्रीणि “ प्राप्तविचारस्य" ॥ ९९ ॥ निष्प्रभः विगतः अरोकः त्रयं दीप्तिहीनस्य । विगतौ वीतनिष्प्रभाविति रुद्रः । विलीनः विद्रुतः द्रुतः त्रीणि द्रवीभूतस्य घृतादेः । सिद्धः निर्वृत्तः निष्पन्नः त्रयं सिद्धस्य । दारितः भिन्नः भेदितः त्रीणि "भेदं प्रापितस्य” ॥ १०० ॥ ऊतं स्यूतं उतं त्रितयं तंतुसंतते । यथा प्रोतः पटः तंतुभिरनुस्यूत इत्यर्थः । अहितं नमस्यितं नमसितं अपचायितं अर्चितं अपचितं षडर्चितस्य । नमस्यितं नमसितमित्युभयत्र नमोवरिवेतिक्यच् क्यस्य विभाषेति यलोपविकल्पः । एवं वरिवसितेत्यत्रापि ज्ञेयम् ॥ १०१॥ वरिवसितं
For Private And Personal