SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २५८ सटीकामरकोशस्य [विशेष्यनिम्नवर्गः विधेयो विनयग्राही वचनेस्थित आश्रवः॥२४॥ वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः॥ धृष्ट कृष्णग्वियातश्च प्रगल्भः प्रतिभान्विते ॥ २५॥ स्याददृष्टे तु शालीनो विलक्षो विस्मयान्विते ॥ अधीरे कातरस्त्रस्त भीरुभीरुकभीलुकाः॥ २६ ॥ आशंसुराशंसितरि गृहयालुर्ग्रहीतरि ॥ श्रद्धालुः श्रद्धया युक्ते पतयालुस्तु पातुके ॥२७॥ लज्जाशीले ऽपत्रपिष्णुर्वेदारुरभिवादके ॥ अभीको दीर्घमध्यो -हस्वमध्यश्च । विधेयः विनयग्राही वचनेस्थितः आश्रवः चत्वारि वचनग्राहिणि । “प्रवृत्तौ निवृत्तौ वा विधातुं शक्यः विधेयः । वचने तिष्ठति स्म वचनेस्थितः । तत्पुरुषे कृतीत्यलुक्" ॥ २४ ॥ वश्यः प्रणेयः द्वे वशंगतस्य । “प्रकर्षेण नेतुं शक्यः प्रणेयः।" अत्र विधेयादिषडपि वशंगतस्य वा। निभृतः विनीतः प्रश्रितः त्रयं विनीतस्य । “नितरां अभारि निभृतः। भृञ् भरणे।" धृष्टः धृष्णक् “ धृष्णुरित्यपि " वियातः त्रीणि अविनीतस्य । “ विरुद्धं यातं चेष्टितं यस्य वियातः ।" धृष्णजौ । प्रगल्भः प्रतिभान्वितः द्वे सप्रतिभस्य । प्रत्युत्पन्नमतित्वं प्रतिभा । “ प्रज्ञा नवनवोन्मेषशालिनी प्रतिभा मतेति रुद्रः" ॥ २५ ॥ अधृष्टः शालीनः हे सलज्जस्य । विलक्षः विस्मयान्वितः द्वे “ परकीयधर्मशीलादौ प्राप्ताश्चर्यस्य ।” अधीरः कातरः द्वे भयक्षुत्पिपासादिव्याकु. लस्य । “ ईषत्तरति कातरः । ईषदर्थे चेति कोः कादेशः ।" त्रस्तः “ त्रस्तुरित्यपि " भीरुः “ भीत इत्यपि” भीरुकः भीलुकः चत्वारि भयशी. लस्य ॥ २६ ॥ आशंसुः आशंसिता द्वे वांछाशीलस्य । गृहयालुः ग्रहीता दे ग्रहणशीलस्य । श्रद्धा आस्तिक्यबुद्धिस्तया युक्ते श्रद्धालुरित्येकम् । पतयालुः पातुकः द्वे पतनशीलस्य । "पतयति तच्छीलः पतयालुः" ॥ २७ ॥ लज्जाशील: अपत्रपिष्णुः द्वे लोकलज्जायुक्तस्य । “ लज्जाशीलमस्य लज्जाशीलः ।" वंदारुः अभिवादकः द्वे वंदनशीलस्य । “वंदते तच्छीलः वंदारुः ।" शरारुः घातुकः हिंस्रः त्रीणि हिंसाशीले । “ शृणाति तच्छीलः । शरारुः ।" वर्धिष्णुः For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy