________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१८
सटीकामरकोशस्य
दिग्वर्गः वर्षोपलस्तु करका मेघच्छन्ने ऽहि दुर्दिनम् ॥ अंतर्धा व्यवधा पुंसि त्वंतढिरपवारणम् ॥ १२ ॥ अपिधानतिरोधानपिधानाच्छादनानि च ॥ हिमांशुश्चंद्रमाश्चंद्र इंदुः कुमुदबांधवः॥ १३॥ विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः॥ अजो जैवातकः सोमोग्लौसृगांकः कलानिधिः॥१४॥ द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः॥ कला तु षोडशो भागो बिंबो ऽस्त्री मंडलं त्रिषु ॥१५॥ भित्तं शकलखंडे वा पुंस्यौ ऽई समेंऽशके॥ चंद्रिका कौमुदी ज्योत्स्ना प्रसादस्तु प्रसन्नता ॥ १६ ॥ कलंकाको लांछनं च चिन्हें लक्ष्म च लक्षणम् ॥
सुषमा परमाशोभा शोभा कांतियुतिश्छविः॥ १७॥ आसारः द्वयं मेघधाराणां निरंतरपतनस्य । शीकर इत्येकं अंबुकणानां । “दंत्यादिरप्ययम्" ॥ ११ ॥ वर्षोपलः करका द्वे यत्प्रथमवृष्टौ मेघोदकं कठिनं सदुपलवत्पतति तस्य । दुर्दिनमित्येकं मेघच्छन्ने दिने । “रात्रेरप्युपलक्षणं" अंतर्धा व्यवधा अंतर्द्धि: अपवारणम् ॥ १२॥ अपिधानं तिरोधानं पिधानं आच्छादनं अष्टकमाच्छादनस्य । तत्र अंतीव्यवधे स्त्रियां । अंतद्धिः पुंसि । हिमांशुः चंद्रमाः चंद्रः इंदुः कुमुदबांधवः ॥ १३ ॥ विधुः सुधांशुः शुभ्रांशुः ओषधीशः निशापतिः अब्ज: जैवातकः। जीवयतीति अंतर्भावितण्यर्थः आतृकन्प्रत्ययः । सोमः “सोमा" ग्लौः मृगांकः कलानिधिः ॥१४॥द्विजराजः शशधरः नक्षत्रेशः क्षपाकरः इति विंशति नामानि चंद्रस्य । चंद्रमंडलस्य षोडशो भागः कलासंज्ञः एकं । बिंबः मंडलं द्वे बिबस्य ॥१५॥ भित्तादिचतुष्कं शकलस्य । तत्रभित्तं नपुंसकं । शकलखंडे क्लीबपुंसोः। अर्धः पुंस्येव। यथा कंबलस्यार्धः खंड इत्यर्थः । वाच्यलिंगोऽपि यथा अर्धा शाटी अर्धः पटः अर्धं वस्त्रं । अर्धमित्येकं समे विभागे तन्नपुंसकमेव । चंद्रिका कौमुदी जोत्स्ना त्रयं चंद्रप्रभायां । प्रसादः प्रसन्नता द्वयं नैर्मल्यस्य ॥ १६ ॥ कलंकः अंकः लांछनं चिन्हं लक्ष्म लक्षणं षटुं चिन्हस्य । सुषमेत्येकं परमायाः शोभायाः । शोभा कांतिः द्युतिः
For Private And Personal