________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२३२
सटीकामरकोशस्य [वैश्यवर्गः ते षोडशाक्षः कर्षो ऽस्त्री पलं कर्षचतुष्टयम् ॥ सुवर्णविस्तौ हेनो ऽक्षे कुरुविस्तस्तु तत्पले ॥ ८६ ॥ तुला स्त्रियां पलशतं भारः स्यादिशतिस्तुलाः॥ आचितो दश भाराः स्युः शाकटो भार आचितः॥८॥ कार्षापणः कार्षिकः स्यात्कार्षिके ताम्रिकेः पणः ॥ अस्त्रियामाढकद्रोणौ खारी वाहो निकुंचकः॥ ८८॥
कुवः प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक् ॥ . स्यात् । “ अस्त्री पुंसि क्लीवे च " द्वे " तोळा इति ख्यातस्य ।" कर्षचतुष्टयं पलं स्यात् एकम् । सुवर्णः बिस्तः द्वे हेन्नः सुवर्णस्याक्षे अशीतिगुंजाभिस्तुलिते सुवर्ण एवेत्यर्थः । “ रुद्रस्तु । सुवर्ण स्वर्णबिस्तयोरिति क्लीवमाह ।" तस्य हेग्नः पले कुरुबिस्त. इत्येकम् ॥ ८६ ॥ पलानां शतं तुला स्यात् “ एकं स्त्रियाम् । विंशतिस्तुलाः एको भारः स्यात् एकम् । भारः स्याद्वीवधे विष्णौ पलानां द्विसहस्रक इति कोशांतरम् ।" पुरुषेण हि द्वे पलसहस्रे वोढुं शक्यते । भियत इति भारः । दश भाराः आचित इति स्युः । यः शाकटः शकटेन वोढुं शक्यो भारः सोऽप्याचित इत्येकम् । “ आचितः शकटोन्मेषे पलानामयुतद्वय इति विश्वः ". ॥ ८७ ॥ कार्षापणः कार्षिकः द्वे राजतकर्षपरिमितरूपकत्य "रुपया इति ख्यातस्य । कार्षापणो ऽस्त्री कार्षिके पणषोडशिके ऽपि चेति कोशांतरम् ।" ताम्रिके ताम्रसंबंधिकर्षप्रमाणे तस्मिन्कार्षिके पण इत्येकं पैसा इति ख्यातस्य । इति तुलामानमुक्तम् । अंगुलिमानं हस्तादि तु नृवर्गे उक्तम् । प्रस्थमानं त्वाह । आढकादयः शब्दाः परिमाणार्थकाः परिमाणविशेषवाचकाः पृथक् प्रत्येकं भिन्ना इत्यर्थः । " तत्र आढक इत्येकं पायली इति ख्यातस्य । द्रोण इत्येकं अदमणी इति ख्यातस्य । द्वे अप्यस्त्रियाम् । खारी इत्येकं दीडमणी इति ख्यातस्य । खार इति पुंसि वा। खारिरिति न्हस्वांतोऽपि स्त्रियाम् । वाह इत्येकं बारामणी इति ख्यातस्य । निकुंचक इत्येकं मूठ इति ख्यातस्य"॥८८॥"कुडव इत्येकं पावशेर इति ख्यातस्य । कुटप इति मुकुटः । कुडपो वा । कुडवप्रमाणं तु । मृद्रेणुकाष्ठलोहादेः पात्रं यच्चतुरंगुलम् ॥ विस्तीर्णं च तथोचं च तन्मानं कुडवं वदेत् । प्रस्थ इत्येकं शेर इति ख्यातस्य ।" आद्यशब्दाच्छूर्पभारादिग्रहः । यदाहुः। पलं प्रकुंचकं मुष्टिः कुडवस्त
For Private And Personal