________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
हितीयं कांडम्. अर्जुन्यन्या रोहिणी सादुत्तमा गोषु नैचिकी ॥ वर्णादिभेदात्संज्ञाः स्युः शवलीधवलादयः॥६७॥ बिहायनी दिवर्षा गौरेकाब्दा लेकहायनी ॥ चतुरब्दा चतुर्हायण्येवं त्र्यब्दा त्रिहायणी ॥ ६८ ॥ वशा वंध्या ऽवतोका तु स्रवद्गर्भा ऽथ संधिनी ॥ आकांता वृषभेणाथ वेहन्द्र पघातिनी ॥ ६९ ॥ काल्योपसर्या प्रजने प्रष्ठौही बालगर्भिणी ॥ स्यादचंडी तु सुकरा बहुसूतिः परेष्टुका ॥ ७० ॥
माता शृंगिणी ॥ ६६ ॥ अर्जुनी अन्या रोहिणी नवकं गवि । गावौ । मातरौ । या गोषु उत्तमा सा गौ चिकीत्येकम् । “निचिकी नैचिकी गौरुत्तमा तु निचिकी सा प्रकीर्तितेति नाममाला । नीचिका नीचिकी चेति द्विरूपकोशः" नीचैश्चरति नैचिकी । वर्णावयवप्रमाणादीनां भेदात् शवलीधवलादयो गवां संज्ञाः । शबली चित्रवर्णा " शबलापि"। धवला शुक्लवर्णा "धवल्यपि" । आदिना कपिला पाटलेत्यादि । अवयवभेदात् लंबकर्णा वक्रशृंगीत्यादि । “प्रमाणभेदात् दीर्घा खर्वा वामनीत्यादि ।” एकैकम् ॥ ६७ ॥ वयोभेदात्संज्ञाभेदमाह । द्विवर्षा द्वे वर्षे प्रमाणमस्याः सा गौर्द्विहायनी एकम् । एकान्दा गौः एकहायनी एकम् । चतुरब्दा गौः चतुहायणी एकम् । त्रिवर्षा त्रिहायणी स्यात् एकम् । त्रिचतुर्ध्या हायनस्य णत्वं वाच्यम् ॥ ६८ ॥ वशा वंध्या द्वे "वांझ इति ख्यातायाः।" अवतोका “वतोकेत्यपि" स्रवद्गर्भा द्वे अकस्मात्पतितगर्भायाः । मृतवत्सा स्रवद्गर्भेति माला । वृषभेण मैथुनार्थे आक्रांता संधिनी । संधा गर्भाधानमस्त्यस्याः संधिनी वा एकम्। वृषोपगमनाद्गभॊपघातिनी वेहदित्युच्यते एकम् । तांतं स्त्रियाम् । विहंति गर्भ वेहत् । वेहदृषोपगतेति भागुरिः ॥ ६९ ॥ प्रजने गर्भग्रहणे काल्या प्राप्तकाला सा गौरुपसर्या एकम् । बाला चासौ गर्भिणी च बालगर्भिणी सा प्रष्टौही । “पष्टौहीत्यपि पाठः । तत्र पृषोदरादित्वात् रलोपः" एकम् । अचंडी सुकरा द्वे अकोपनायाः । बहुसूतिः परे. ष्टुका द्वे बहुप्रसवायाः ॥७०॥ चिरप्रसूता "वष्कयणी बकयिणीत्यपि । बष्कयस्तरुणवत्सः सो ऽस्त्यस्याः । बष्कयस्त्वेक हायनो वत्स इति शाकटायनः" हे दीर्घका
For Private And Personal