________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सदा
सटीकामरकोशस्य [वैश्यवर्गः उत्तमर्णाधमर्णो दौ प्रयोक्तृग्राहको क्रमात् ॥ कुसीदिको वाधुषिको वृद्धयाजीवश्च वाधुषिः॥५॥ क्षेत्राजीवः कर्षकश्च कृषिकश्च कृषीवलः ॥ क्षेत्रं ब्रैहेयशालेयं व्रीहिशाल्युद्भवोचितम् ॥ ६ ॥ यव्यं यवक्यं षष्टिक्यं यवादिभवनं हि यत् ॥ तिल्यं तैलीनवन्माषोमाणुभंगा विरूपता ॥७॥ मौद्गीनकौद्रवीणादिशेषधान्योद्भवक्षमम् ॥
स्यादिति मनुः ॥४॥ प्रयोक्ता ऋणस्य दाता उत्तमर्ण इत्येकं सावकार इति प्रसिद्धस्य । " उत्तमं ऋणमस्य ।" ऋणस्य ग्राहको ऽधमर्ण इत्येकं कर्जदार इति प्रसिद्धस्य । कुसीदिकः वाधुषिकः वृद्ध्याजीवः वाधुषिः चत्वारि ऋणं दत्वा तट्टझ्याजीविनः पुरुषस्य । “कुसीदार्थ प्रयच्छति कुसीदिकः । वृद्धिं गयाँ प्रयच्छति वार्धषिकः" ॥५॥ क्षेत्राजीवः कर्षकः “कार्षको वा” कृषिकः कृषीवल: चत्वारि कृषीवलस्य शेतकरीति लौकिकभाषायाम् । कृषिरस्यास्तीति कृषीवलः । वले इति दीर्घः । ब्रीाद्भवोचितं ब्रीहीणामुद्भवे योग्यं क्षेत्रं त्रैहेयं एकम् । शाल्युद्भवोचितं क्षेत्रं शालेयं एकम् ॥ ६॥ यवादीनां भवनं उद्भवोचितं यत्क्षेत्रं तत् यव्यादि। यथा यवानां भवनं क्षेत्रं यव्यम् । यवका अल्पयवास्तेषां भवनं क्षेत्रं यवक्यम् । " यवकः शूकधान्यो यवः" । षष्टिकाः षष्टिरात्रेण पच्यते तेषां भवनं क्षेत्र पष्टिक्यं एकैकम् । तिल्यं तैलीनवन्माषादेः क्षेत्रविषये द्विरूपता स्यात् । यथा तिल्यं तैलीनं द्वे तिलानां भवने क्षेत्रे । एवं माध्यं माषीणं वे माषाणां भवने क्षेत्रे । उमा अतस्यस्तासां क्षेत्रं उम्यं औमीनं द्वे । अणुर्धान्यभेदस्तक्षेत्रे अणव्यं आणवीनं द्वे । भंगा मातुलानी तत्क्षेत्रं भंग्यं भांगीनं द्वे ॥ ७॥ शेषाणां ब्रीह्यादिभ्य उक्ते. भ्यो ऽन्येषां मुद्गादीनां धान्यानामुद्भवोचितं क्षेत्रं मौद्गीनादि स्यात् । शेषधान्योगवोचितमिति वा पाठः । यथा मुद्गानां भवनं क्षेत्रं मौद्गीनम् एवं कौद्रवीणम् । आदिना चाणकीनम् । “गौधुमीनम् । कालायीनम् । कौलत्थीनम् । प्रैयंगवीनमित्यादि । धान्यानां भवने क्षेत्रे खञ् ईनादेशः एकैकम् । “शाकशाकटं शाकशाकिनं द्वयं शाकक्षेत्रादिके क्लीबं । भवने क्षेत्रे शाकटशाकिनाविति वार्तिकेन सिद्धमेतत् । आदौ उप्तं
For Private And Personal