________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
द्वितीयं कांडम्. संन्यासवत्यनशने पुमान्प्रायोऽथ वीरहा ॥ नष्टामिः कुहना लोभान्मिथ्येर्यापथकल्पना ॥ ५३ ॥ वासः संस्कारहीनः स्यादस्वाध्यायो निराकृतिः॥ धर्मध्वजी लिंगवृत्तिरवकीर्णी क्षतव्रतः॥५४॥ मुप्ते यस्मिन्नस्तमेति सुप्ते यस्मिन्नुदेति च ॥ अंशुमानभिनिर्मुक्ताभ्युदितौ च यथाक्रमम् ॥ ५५ ॥ परिवेत्ता ऽनुजो ऽनूढे ज्येष्ठे दारपरिग्रहात् ॥ परिवित्तिस्तु तज्ज्यायान विवाहोपयमौ समौ ॥५६॥ तथा परिणयोदाहोपयामाः पाणिपीडनम् ॥ व्यवायो ग्राम्यधर्मों मैथुनं निधुवनं रतम् ॥ ५७ ॥
त्यागे प्राय इत्येकम् । अदंतः पुंसि । वीरहा नष्टाग्निः द्वे नष्टो ऽग्निर्यस्य तस्य । वीरोऽग्निस्तं हंतीति वीरहा ।" वीरहणौ । लोभात्परधनाद्यभिलाषात् या मिथ्येर्यापथकल्पना दंभेन ध्यानमौनादिसंपादनं सा कुहनेत्येकम् ॥५३॥ संस्कारेणोपनयनेन गौणकालोत्तरं हीनो व्रात्य इत्यर्थः एकम् । अस्वाध्यायः स्वशाखाध्ययनशून्यो निराकृतिः एकम् । “आकृतेरध्ययनचेष्टाया निर्गतो निराकृतिः।" धर्मध्वजी लिंगवृत्तिः द्वे जीविकार्थ जटादिधारणवतः । लिंग धर्मचिह्नं वृत्ति विका यस्य सः । अवकीर्णी क्षतव्रतः द्वे नष्टब्रह्मचर्यस्य । “अवकीर्ण विक्षिप्तं व्रतमनेनावकीर्णी ।" अवकीणिनौ ॥५४॥ अंशुमान रविर्यस्मिन् सुप्ते ऽस्तमेति सोऽभिनिर्मुक्तः एकम् । अभि सर्वतः सायंतनं कर्म निश्चयेन मुक्तं येन ।" यस्मिन्सुप्ते ऽशुमानुदेति सो ऽभ्युदितः। “अभि सर्वतः उदतिशयेन इतं गतं प्रातस्तनं कर्मास्य" ॥५५॥ ज्येष्ठे भ्रातर्यकृतदारपरिग्रहे सति कृतदारपरिग्रहः कनिष्ठः परिवेत्ता स्यात् एकम् । परिविंदति ज्येष्ठं परित्य
ज्य भार्या लभते । विदुलाभे । तस्य परिवेत्तुायान् ज्येष्ठः परिवित्तिः स्यात् एकम् । विवाहः उपयमः ॥५६॥ परिणयः उदाहः उपयामः पाणिपीडनं षट् विवाहस्य । व्यवायः ग्राम्यधर्मः मैथुनं निधुवनं रतं पंच मैथुनस्य । “नितरां धुवनं हस्तपादादिचालनमत्र निधुवनम् । व्यवायो ग्राम्यधर्मश्च रतं निधुवनं च सेति उत्तरार्ध अन्य था
For Private And Personal