SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. १५७ खणैः प्रालंबिकाऽथोरःसूत्रिका मौक्तिकैः कृता ॥१०॥ हारो मुक्तावली देवच्छंदो ऽसौ शतयष्टिका ॥ हारभेदा यष्टिभेदागुच्छंगुच्छार्धगोस्तनाः॥ १०५॥ अर्धहारो माणवक एकावल्येकयष्टिका ॥ सैव नक्षत्रमाला स्यात्सप्तविंशतिमौक्तिकैः ॥ १०६ ॥ आवापकः पारिहार्यः कटको वलयो ऽस्त्रियाम् ॥ केयूरमंगदं तुल्ये अंगुलीयकमूर्मिका ॥ १०७ ॥ साक्षरांऽगुलिमुद्रा स्यात्कंकणं करभूषणम् ॥ स्त्रीकटयां मेखला कांची सप्तकी रशना तथा ॥ १०८॥ क्लीबे सारसनं चाथ पुंस्कटयां शृंखलं त्रिषु ॥ नाभिलंबितकंठिकायाम् । सैव ललंतिका स्वर्णैः कृता प्रालंबिका स्यात् एकम् । सैव ललंतिका मौक्तिकै रचिता चेदुरःसूत्रिकेत्येकम् ॥१०४॥ हारः । न्हियते मनो ऽनेनेति । अथवा हारयति मनः । मुक्तावली " द्वे मुक्ताहारस्य ।" असौ मुक्तावली शतयष्टिका शतलतिका चेत् देवच्छंदः एकम् । देवच्छंदौ । यष्टिभेदालतानां भेदात् गुच्छादयो हारभेदाः स्युः । “गुत्सगुत्सार्धगोस्तना इत्यपि पाठः ।" ते यथा । द्वात्रिंशद्यष्टिको गुच्छः । चतुर्विंशतियष्टिको गुच्छार्द्धः । चतुर्यष्टिको गोस्तनः ॥ १०५॥ द्वादशयष्टिको ऽर्धहारः । विंशतियष्टिको माणवकः । एकयष्टिका एकावली । सैवैकावली सप्तविंशतिमौक्तिकैः कृता नक्षत्रमाला स्यात् एकैकम् । ॥ १०६ ॥ आवापकः पारिहार्यः कटकः वलयः चत्वारि प्रकोष्टाभरणस्य "पोंची इत्यादिख्यातस्य ।" केयूरं अंगदं द्वे प्रगंडभूषणस्य "बाहुवटे, बाजुबंद इति ख्यातस्य ।" के बाहुशिरसि यौति केयूरम् । यु मिश्रणे । अंगुलीयकं ऊमिका द्वे अंगुल्याभरणस्य आंगुठी इति ख्यातस्य ॥ १०७ ॥ ऊर्मिकैव रामनामाद्यक्षरयुता चेदंगुलिमुद्रेत्येकम् । कंकणं करभूषणं द्वे मणिबंधभूषणस्य "कांकणे इति ख्यातस्य ।" कंकणो ना प्रतिसर इति रत्नकोशः । मेखला कांची "कांचिः" सप्तकी रशना. "दंत्यमध्यापि ॥ १०८ ॥ सारसनं पंच स्त्रीणां कटिभूषणस्य "दाब, कंबरपट्टा इति ख्यातस्य । एकयष्टिर्भवेत्कांची मेखला त्वष्टयष्टिका । रसना - Amarein For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy