________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सटीकामरकोशस्य [मनुध्यवर्गः दगुणो दट्ठरोगी स्यादर्शोरोगयुतो ऽर्शसः॥ वातकी वातरोगी स्यात्सातिसारो ऽतिसारकी॥ ५९॥ स्युः क्लिन्नाक्षे चुल्लचिल्लपिल्लाः किन्ने ऽक्षिण चाप्यमी॥ उन्मत्त उन्मादवति श्लेष्मलः श्लेष्मणः कफी ॥६॥ न्युब्जो भुमे रुजा वृद्धनाभौ तुंदिलतुंदिभौ॥ किलासी सिध्मलों ऽधो ऽहक् मूर्छाले मूर्तमूर्छितौ ॥११॥ शुक्र तेजोरेतसी च बीजवीर्येद्रियाणि च ॥ मायुः पित्तं कफः श्लेष्मा स्त्रियां तु त्वगसृग्धरा ॥ ६२॥
दद्रुः खजूभेदः “दाद इति प्रसिद्धा।" अर्शोरोगेण युतः अर्शस इत्युच्यते एकम् । वातकी वातो ऽतिशयितोऽस्य । वातातीति कुगागमः इनिप्रत्ययश्च रोगे चायमिष्यते । नेह वातवती गुहा । वातरोगी द्वे वातरोगयुक्तस्य । सातिसारः अतिसारकी द्वे अतिसारयुक्तस्य ॥ ५९॥ क्लिन्नाक्षः चुल्लः चिल्लः पिल्ल: चत्वारि क्लेदयुक्ते अक्षिणी यस्य तस्य पुंसः “चिपडा इति ख्यातस्य ।" अमी चुल्लचिल्लपिल्लास्त्रयः क्लिन्ने ऽक्ष्णि च क्लेदयुक्ते नेत्रे ऽपि वर्तते “चिपडे डोळे इति ख्यातेषु”। उन्मत्तः उन्मादवान् द्वे उन्मादयुक्तस्य । उन्मादो वातपित्तादिकृतश्चित्तविभ्रमः । श्लेष्मलः श्लेष्मणः कफी त्रीणि कफयुक्तस्य ॥ ६०॥ रुजा रोगेण भुनो वक्रपृष्टोऽधोमुखस्तत्र न्युज इत्येकम् । वृद्धनाभिः तुंदिलः "तुंडिल:" तुंदिभः “तुडिभः" त्रीणि वातादिनोन्नतनाभेः । किलासी सिध्मलः द्वे सिध्मयुक्तस्य " शिव्या इति ख्यातस्य ।" अंधः अदृक् द्वे दृष्टिहीनस्य “अंधळा इति ख्यातस्य ।” अदृशौ । मूर्छालः मूर्तः मूर्छितः त्रीणि मूळयुक्तस्य ॥ ६१॥ शुक्रं तेजः रेत: बीजं वीर्य इंद्रियं षट् रेतसः । मायुः पित्तं द्वे पित्तस्य । मायुरुदंतः पुंसि । कफः श्लेष्मा द्वे कफस्य । श्लेष्माणौ । त्वक अस्मुग्धरा “ अमृग्धारेत्येके" द्वे चर्मणः । त्वचौ “स्वच इत्यदंतः । त्वचेति टावंतश्चान्यत्र ।” ॥ ६२ ॥ पिशितं तरसं मांसं पललं क्रव्यं आमिषं षटं मांसस्य । उत्तप्तं शुष्कमांसं वल्लूरं " वल्लुरमिति व्हस्वोकारमपि" त्रीणि शुष्कमांसस्य । तत्र वल्लूरं त्रिषु । वल्लूरा ॥ ६३॥ रुधिरं असृक लोहितं असं रक्तं क्षतजं शोणितं सप्त रक्तस्य | असूजी । वुक्का “का अग्रमांसं द्वे हृद.
For Private And Personal