________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१४३
द्वितीयं कांडम्. एनिरल्पतनौ श्रोणः पंगौ मुंडस्तु मुंडिते ॥४८॥ बलिरः केकरे खोडे खंजस्त्रिषु जरावराः॥ जडुलः कालकः पिलुस्तिलकस्तिलकालकः॥४९॥ अनामयं स्यादारोग्यं चिकित्सा रुक्प्रतिक्रिया॥ भेषजौषधभैषज्यान्यगदो जायुरित्यपि ॥ ५० ॥ स्त्री रुग्रुजा चोपतापरोगव्याधिगदामयाः॥ क्षयः शोषश्च यक्ष्मा च प्रतिश्यायस्तु पीनसः॥५१॥
न्युजः स्याद्वाच्यलिंगक इति मेदिनी ।" गडुलः “गडुरः । गडुः पृष्ठगडे कुब्जे इति मेदिन्याम् ।” द्वे कुव्जस्य “ कुबडा इति ख्यातस्य ।” कुकरः कुत्सितौ करौ यस्य सः । कुणिः “कूणिः । निसर्गतः कूणिपंगुपौगंडा इति नाममाला।" द्वे रोगादिना दूषितकरस्य । पृश्निः " पृष्णिः” अल्पतनुः द्वे अल्पा तनुर्यस्य तस्य अमानुषप्रायस्य । श्रोणः पंगु: हे जंघाविकलस्य । मुंडः मुंडितः द्वे कृतवपनस्य ॥ ४८ ॥ बलिरः केकरः द्वे नेत्रवियुक्तस्य " काणा, कैरा, तिरवा इति ख्यातस्य ।” के मूर्ध्नि कर्तुं शीलमस्येति केकरः खोड: “ खोरः खोलः । अथ खंजके खोडखोराविति रभसः ।" खंजः द्वे गतिविकलस्य " लंगडा इति ख्यातस्य । त्रिष्विति । जरावराः जराशब्दादवराः अर्वाक्पठिताः उत्तानशयाद्याः खंजांतास्त्रिषु वाच्यलिंगा इत्यर्थः । जडुलः “जठुलः" कालकः पिप्लुः त्रयं कृष्णवर्णस्य देहगतचिन्हविशेषस्य “ लासें इति ख्यातस्य ।” तिलकः तिलकालकः द्वे आकृतितो वर्णतश्च कृष्णतिलतुल्यस्य देहगतचिन्हस्य । तिल इव कालकः॥४९॥ अनामयं आरोग्यं द्वे रोगाभावस्य । “आमयस्याभावः अनामयम् । अर्थाभावेऽव्ययीभावः ।" चिकित्सा रुकप्रतिक्रिया द्वे रोगप्रतीकारस्य । “रुजः प्रति प्रतिक्रिया निरसनं रुकप्रतिक्रिया ।" भेषजं औषधं भैषज्यं “ भेषजं भेषं रोगं जयति भेषजम् । अगदः जायुः पंचौषधस्य । अगदसाहचर्याज्जायुरुदंत: पुंसि ॥ ५० ॥ रुक रुजा उपतापः रोगः व्याधिः गदः आमयः सप्त रोगमात्रस्य । तत्र रुक् जका. रांता । रुजा टाबंता । उभे स्त्रियौ । क्षयः शोषः यक्ष्मा त्रीणि क्षयरोगस्य । प्रतिश्यायः पीनसः हे पीनसरोगस्य पडसें इति ख्यातस्य । अयं मुहुर्नासाजलस्रावी ।
For Private And Personal