________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सटीकामरकोशस्य [स्वर्गवर्गः भूतेशः खंडपरगिरीशो गिरिशो मृडः ॥ मृत्युंजयः कृतिवासाः पिनाकी प्रमथाधिपः॥ ३३॥ उग्रः कपर्दी श्रीकंठः शितिकंठः कपालभृत् ॥ वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः ॥ ३४॥ कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः॥ हरः स्मरहरो भर्गस्यंबकस्त्रिपुरांतकः॥ ३५॥ गंगाधरों ऽधकरिपुः ऋतुध्वंसी वृषध्वजः॥ व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः॥ ३६॥ “अहिर्बुध्न्यो ऽष्टमूर्तिश्च गजारिश्च महानटः॥" कपर्दो ऽस्य जटाजूटः पिनाको ऽजगवं धनुः ॥ प्रमथाः स्युः पारिषदी ब्राह्मीयाद्यास्तु मातरः ॥ ३७॥ विभूतिभूतिरैश्वर्यमणिमादिकमष्टधा ॥
उमा कात्यायनी गौरी काली हैमवतीश्वरी॥३८॥ गिरिशः।गिरिर्यस्यास्ति अथवा गिरौ शेते । मृडः मृत्युंजयः कृत्तिवासाः पिनाकी प्रमथाधिपः ॥ ३३ ॥ उग्रः कपर्दी श्रीकंठः शितिकंठः कपालभृत् वामदेवः महादेवः विरूपाक्षः त्रिलोचनः ॥ ६४ ॥ कृशानुरेताः सर्वज्ञः धूर्जटि: नीललोहितः हरः “हीरः" स्मरहरः भर्ग: “भर्यः" व्यंबकः त्रिपुरांतकः ॥ ३५ ॥ गंगाधरः अंधकरिपुः ऋतुध्वंसी वृषध्वजः व्योमकेशः भवः भीमः स्थाणुः रुद्रः उमापतिः । इत्यष्टचत्वारिंशन्नामानि शिवस्य । ईशितुं शीलमस्येश्वरः । ईष्टे तच्छील ईशानः ॥ ३६॥ अस्य शंभोः जटाजूटः कपर्दनामा । अस्य धनुः अजगवम् । "अजकवम्" तदेव पिनाक इत्यापि । अस्य पारिषदाः परिषदि साधवः “पारिषद्याः" प्रमथाः । ब्राह्मीत्याद्याः “ब्रह्माण्याद्याः" मातरः । यथाहुः । ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराही च तथेंद्राणी चामुंडा सप्त मातर इति ॥ ३७ ॥ विभूतिः भूतिः ऐश्वर्य इति त्रीणि ऐश्वर्यस्य । तत्तु अणिमा महिमेत्यादिभेदैरष्टविधं ॥ “ते चाष्टौ भेदा यथा । अणिमा महिमा चैव गरिमा लघिमा तथा । प्राप्तिः
For Private And Personal