SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. कूष्माडकस्तु कर्कारुरुरुः कर्कटी स्त्रियौ ॥ १५५ ॥ इक्ष्वाकुः कटुतुंबी स्यात्तुंब्यलारुभे समे ॥ चित्रा गवाक्षी गोडंबा विशला विंद्रवारुणी ॥ १५६ ॥ अर्शोघ्नः सूरणः कंदो गंडीरस्तु समष्ठिला॥ कलंव्युपोदिका स्त्री तु मूलकं हिलमोचिका ॥ १५७॥ वास्तुकं शाकभेदाः स्युर्दूर्वा तु शतपर्विका ॥ एरुिः । उन्मत्तो धुस्तुरिर्वारु: कर्कटिः स्यादिति पुंस्कांडे रत्नकोशात् ।" कर्कटी “कर्कटिः" द्वे कर्कट्याः कांकडी इति ख्यातायाः ॥ १५५ ॥ इक्ष्वाकुः कटुतुंबी द्वे कटुतुंब्याः “दुध्या कडुभोंपळा इति ख्यातायाः । अत्र इक्ष्वाकुशब्दः कटकटुतुंब्युभयसाधारणः । इक्ष्वाकुः कटुतुंब्यां स्त्री सूर्यवंशे नृपे पुमानिति कोशांतरेऽप्युक्तम् ।” तुंबी " तुंबिः तुंबा" अलाबूः । “अलांबूः आलाबूः आलाबुः लाबुः लाबूः । अलाबुः स्त्री पिंडफला तुंबिस्तुंबी महाफला । तुंबा तु वर्तुला ऽलाबूनिबे तुंबी तु लावुकेति वाचस्पतिः। अलाबूस्तुंबकः प्रोक्त इति चंद्रः । लाबुकेत्यन्यकोशे । द्वे काळा भोपळा इति ख्यातस्य ।" अलाबुर्हस्वांतोऽपि क्वचित् । चित्रा गवाक्षी गोडुबा त्रीणि गोडुंबायाः “कंवडळ इति ख्यातायाः । चित्रा ऽऽखुपर्णी गोडंबा सुभद्रा दंतिकासु च । मायायां सर्पनक्षत्रे नदीभेदेषु च स्त्रियामिति मेदिनी । गवाक्षी त्विद्रवारुण्यां गवाक्षो जालके कपाविति हैमः । गोदुग्धेति पाठो न दृश्यते कोशेषु । गोदुग्धेति चिभूड इति प्रसिद्धिवैद्यके" । विशाला इंद्रवारुणी द्वे इंद्रवारुण्याः “ मोठी कंवडळ इति ख्यातायाः ॥ १५६॥ अर्शोन्नः सूरणः " तालव्यादिरपि ।” कंदः त्रीणि सूरणस्य । गंडीरः समष्ठिला द्वे गंडीराख्यशाकभेदस्य “कडू सूरण इति ख्यातस्य ।" कलंब्यादयः पंच शाकभेदाः स्युः एकैकम् । तत्र कलंबी वेण्वाकृतिः । “ कलंबी तु शतपर्वा कलंबूर्वा सुवीरुध इति वाचस्पतिः । कलंबी शाकभेदे ऽपि स्यादंडशरयोः पुमानिति मेदिनी ।" उपोदिका “ उपोदीकापि" (वाळी) “थोरमयाळ, पोईमांडवीवेल" इति प्रसिद्धा । मूलकं मुळा इति ख्यातम् । हिलमोचिका देशांतरे हलहंची “ चाकवत" इति प्रसिद्धाः ॥ १५७ ॥ वास्तुकं "बथुवा” “चंदनबटुवा” इति प्रसिद्धम् । " वास्तूकमपि" । दूर्वा शतपर्विका “ शतपर्णिका" सहस्रवीर्या भार्गवी रुहा For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy