________________
Shri Mahavir Jain Aradhana Kendra
१०८
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सटीकामरकोशस्य
[ वनौषधिवर्गः
पृथ्वीका चंद्रवालैला निष्कुटिबहुला ऽथ सा ॥ सूक्ष्मोपकुंचिका तुत्था कोरंगी त्रिपुटा त्रुटिः ॥ १२५ ॥ व्याधिः कुष्टं पारिभाव्यं वाप्यं पाकलमुत्पलम् ॥ शंखिनी चोरपुष्पी स्यात्केशिन्यथ वितुन्नकः ॥ १२६॥ झटाला झटा ताली शिवा तामलकीति च ॥ प्रपौंडरीकं पौंडैर्यमथ तुन्नः कुबेरकः ॥ १२७ ॥ कुणिः कच्छः कांतलको नंदिवृक्षो ऽथ राक्षसी ॥ चंडा धनहरी क्षेमदुष्पत्रगणहासकाः ॥ १२८ ॥ व्याडायुधं व्याघ्रनखं करजं चक्रकारकम् ॥ सुषिरा विद्रुमलता कपोतांर्निटी नली ।। १२९ ॥
"
एला निष्कुटि: “निष्कुटी" बहुला पंचकं एलायाः । सा एला सूक्ष्मा सूक्ष्मपरिमाणा चेत् उपकुंचिका तुत्था कोरंगी त्रिपुटा त्रुटि: " त्रुटी " इति पंच नामानि ॥ १२५ ॥ व्याधिः कुष्ठं पारिभाव्यं वाप्यं “ व्याप्यं आप्यं " पाकलं उत्पलं षटुं कडू कोष्ठ " गोडें कोष्ठ " इति ख्यातस्य । शंखिनी चोरपुष्पी केशिनी त्रयं चोरवल्लयाः “ चोर शंखाहुली, सांखवेल इति ख्यातायाः । वितुन्नकः ॥ १२६ ॥ झटामला अझटा ताली शिवा तामलकी षङ्कं भूम्यामलक्याः । झटामलेत्यत्र झटेति पृथक् पदं वा । अमलेति छेदः । आह च । तामलक्यामला तालीति । - झटा तामलकीति चेति । प्रपौंडरीकं पौंडर्यं “ पुंडर्यं " द्वे पौंडर्यस्य । इदं शालपर्णीतुल्यपत्रं ज्ञेयम् । स्थलपद्ममिति गौडाः । तुन्नः कुबेरकः || १२७॥ कुणि: “ तुणि: कच्छः कांतलकः नंदिवृक्षः " नंदीवृक्षः षटुं नंदिवृक्षस्य "" नांदरुखी इति ख्यातस्य । अयमश्वत्थाकारपत्रः । राक्षसी चंडा धनहरी क्षेमः दुष्पत्रः गणहासकः षटुं चोराख्यगंधद्रव्यस्य “ चोरओंवा किरमाणी ओवा, गठोना, गाठीवनमूळ इति ख्यातस्य । गण इत्यप्यस्य नाम ॥ १२८ ॥ व्याडायुधं “ व्यालायुधं” व्याघ्रनखं करजं चक्रकारकं चत्वारि व्याघ्रनखनामकगंधद्रव्यस्य " लघुनखला, वाघनख इति ख्यातस्य । " सुषिरा विद्रुमलता कपोतांत्रिः नटी नली ॥ १२९ ॥ धमनी अंजनकेशी सप्त नलीनामकगंधद्रव्यस्य
""
""
66
""
For Private And Personal