________________
Shri Mahavir Jain Aradhana Kendra
१००
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
'सटीकामरकोशस्य
[वनौषधिवर्गः
ऋष्यप्रोक्ता शुकशिबिः कपिकच्छुश्व मर्कटी ॥ चित्रोपचित्रा न्यग्रोधी द्रवंती शंबरी वृषा ॥ ८७॥ प्रत्यक्श्रेणी सुतश्रेणी रैंडा मूषिकपर्ण्यपि ॥ अपामार्गः शैखरिको धामार्गवमयूरकौ ॥ ८८ ॥ प्रत्यक्पर्णी केशपर्णी किणिही खरमंजरी || "जिका ब्राह्मणी पद्मा भार्गी ब्राह्मणयष्टिका ॥ ८९ ॥ अंगावली वाले शाकवर्वरवर्धकाः ॥
मंजिष्ठा विकसा जिंगी समंगा कालमेषिका ॥ ९० ॥ मंडूकपर्णी मंडी भंडी योजनवपि ॥ यासो यवासो दुःस्पर्शो धन्यासः कुनाशकः ॥ ९१ ॥ रोदनी कच्छुराऽनंता समुद्रांता दुरालभा ॥
44
का तालव्या । शूकशिंबापि । मर्कटी शूकशिंबा चेति वाचस्पतिः । " कपिकच्छुः कपिकच्छू : " मर्कटी नव कुवली " कुहिरी " इति ख्यातायाम् । मर्कटतुल्यलोमयुक्तत्वान्मर्कटी । यत्स्पर्शेन कंडूरुत्पद्यतेऽतः कंडूरा । चित्रा उपचित्रा न्यग्रोधी द्रवंती शंबरी वृषा ॥ ८७ ॥ प्रत्यक श्रेणी सुतश्रेणी रंडा " चंडा । प्रत्यक्श्रेणी वृषा चंडा पुत्रश्रेण्या खुपर्णिकेति निघंटुः । " मूषिकपर्णी दश मूषिकपयः उंदीरकानी इति ख्यातायाः । अपामार्गः शैखरिकः धामार्गवः " भधामार्गवः । अधामार्गवो ऽपामार्गः कोशातकी चेति व्यर्थे । " मयूरकः ॥ ८८ ॥ प्रत्यक्पर्णी केशपर्णी " कीशपर्णी । कपिलोमतुल्यानि लोमशानि पर्णान्यस्याः । " किणिही खरमंजरी अष्टकं अपामार्गस्य आघाडा इति ख्यातस्य । इंजिका " फंजिका " ब्राह्मणी पद्मा भार्गी ब्राह्मणयष्टिका ॥ ८९ ॥ भंगारवल्ली बालेयशाकः बर्बरः वर्धकः नवकं भार्ग्यो: “ भारंग इति ख्यातायाः। " मंजिष्ठा विकसा “ विकषा " जिंगी समंगा कालमेषिका " कालमेशिका " ॥ ९० ॥ मंडूकपर्णी मंडीरी “मंडिरी । रक्ता मंडिरिका चेतदुः " भंडी योजनवल्ली नवकं मंजिष्ठाया: । “ योजनपर्ण्यपीति पाठः । " यासः यवासः दुःस्पर्शः धन्वयासः “ धनुर्यासः " कुनाशकः ॥ ९१ " रोदनी “ चोदनी " कच्छुरा अनंता समुद्रांता
For Private And Personal