________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सटीकामरकोशस्य [वनौषधिवर्गः भूपदी शीतभीरुश्च सैवास्फोटा वनोद्भवा ॥ शेफालिका तु सुवहा निर्गुडी नीलिका च सा ॥७॥ सिताऽसौ श्वेतसुरसा भूतवेश्यथ मागधी ॥ गणिका यूथिकां ऽवष्ठा सा पीता हेमपुष्पिका ॥७१॥ अतिमुक्तः पुंड्रकः स्यादासंती माधवी लता॥ सुमना मालती जातिः सप्तला नवमालिका ॥७२॥ माध्यं कुंदं रक्तकस्तु बंधूको बंधुजीवकः॥
भद्रमल्लिका । शीतभीरुर्मदायंती भूपदी तृणशून्यकमिति वाचस्पतिः ।" चत्वारि मल्लिकायाः " मोगरी इति ख्यातायाः ।" सैव मल्लिका वनोद्भवा आस्फोटेत्युच्यते एकं रानमोगरी इति ख्यातस्य । आस्फोतेत्यपि । “आस्फोता गिरिकऱ्यां च वनमल्लयां च योषितीति मेदिनी।" शेफालिका "शीपालिका" सुवहा निर्गुडी नीलिका चत्वारि कृष्णपुष्पायाः निर्गुड्याः “राननिर्गुडी इति ख्यातायाः । इयं श्वेतपुष्पा" ॥७०॥असौ निर्गुडी सिता श्वेतसुरसा भूतवेशी इति चोच्यते । “इयं कातरी निर्गुडी इति ख्याता ।" मागधी गणिका यथिका अंबष्ठा चत्वारि यूथिकायाः जुई इति ख्यातायाः । सा यूथिका पीता पीतपुष्पा चेत् हेमपुष्पिका स्यात् एकम् ॥७१॥ अतिमुक्तः पुंडकः । वासंती वसंते पुष्प्यति । कालादित्यण् । एवं माधवीत्यपि ज्ञेयम् । माधवी लता पंच कुंदभेदस्य कुसरी इति “कस्तुरमोगरा, मधुमाधवी इति च ख्यातस्य"। अतिमुक्तादिद्वयं मल्लिकाभेदस्येत्येके । “माधवीलतेत्येकं पदमपि"। सुमनाः मालती जाति: “जाती । जाती फले च मालत्यामिति मेदिनी । त्रीणि जातेः जाई “चमेली, मोठी श्वेतजाई, पीतवर्ण जाई" इति ख्यातायाः। तत्र सुमनाः सांतः । "टाबंतो ऽपि । सुमनायाश्च पत्रेणेति सुश्रुते दर्शनात् ।" सप्तला नवमालिका " नवमल्लिका" द्वे नेवाळी “धोरमोगरा, बटमोगरा वेलमोगरा” इति ख्यातायाः ॥७२॥ माध्यं कुंदं “कुंदः कुंदो माध्ये ऽस्त्री मुकुंदभ्रमिनिध्यंतरेषु चेति मे. दिनी ।" द्वे कुंदस्य । रक्तकः बंधकः "बंधुकः” बंधुजीवकः त्रीणि बंधुकस्य “दुपारी इति ख्यातस्य ।” सहा कुमारी तरणिः । द्युमणौ तरणिः पुंसि कुमारीनौकयोः स्त्रियामिति रत्नः । त्रीणि कुमारी इति “कांटेशेवती, लघुरानशेवती, शेव.
For Private And Personal