________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भमरकोपे
[३. परिभाषा
३. परिभाषा प्रायशो रूपभेदेन साहचर्याच्च कुत्रचित् स्त्रीपुंनपुंसकं ज्ञेयं तद्विशेषविधेः कचित् भेदाख्यानाय न द्वन्द्वो नैकशेषो न संकरः कृतोऽत्र भिन्नलिङ्गानामनुक्तानां क्रमादृते त्रिलिजयां त्रिष्विति पदं मिथुने तु द्वयोरिति निषिद्धलिङ्गं शेषार्थ त्वन्ताथादि न पूर्वभाक्
१०
५-१०. अत्र प्रायशो बाहुल्येन रूपभेदेनाकारविशेषेण स्त्रीपुंनपुंसकं ज्ञेयम् । यथा-'लक्ष्मीः पद्मालया पद्मा' (५४) 'पिनाकोऽजगवं धनुः' (६९)। तथा कुत्रचित्साहचर्याच्छन्दान्तरसांनिध्याल्लिङ्गं नेयम् । यथा-'अश्वयुगश्विनी' (१८७) 'ब्रह्मात्मभूः सुरज्येष्ठः' (३१), "वियद्विष्णुपदम्' (१४५)। अत्र संदिग्धानि अश्वयुग्ब्रह्मवियन्ति' 'अश्विन्यात्मभूविष्णुपद'साहचर्यात्स्त्रीपुंनपुंसकलिङ्गानि । तथा क्वचित्तद्विशेषविधेर्लिङ्गविशेषोक्तेः । यथा-'मेरी श्री दुन्दुभिः पुमान् ( ३७३ ), 'क्लीबे त्रिविष्टपम्' (१२) । अत्रास्मिन्प्रन्थेऽनुक्तानामव्युत्पादितानां भिन्नलिङ्गानामसमानलिङ्गानां नाम्नां मेदाख्यानाय लिङ्गमेदं समाख्यातुं द्वन्द्वो न कृतः । यथा-'कुलिशं भिदुरं पविः' (९३)। न तु 'कुलिशभिदुरपवयः' इति । तथा एकशेषोऽपि न कृतः । यथा-'नभः खं श्रावणो नभाः' (२८८१) । न तु 'खश्रा. वणौ तु नभसी' इति। तथा क्रमाहते क्रम विना संकरोऽपि भिन्नलिङ्गानां मिश्रीभावोऽपि न कृतः। किंतु स्त्रीपुंनपुंसकानि क्रमेण पठितानि । यथा-'स्तवः स्तोत्रं नुतिः स्तुतिः' (३३३) इति, नतु 'स्तुतिः स्तोत्रं स्ववो नुतिः' इति । त्रिलिङ्गयां लिङ्गत्रयसमाहारे 'त्रिषु' इति पदमुक्तम् । यथा-'त्रिषु स्फुलिङ्गोऽमिकणः' (११४) । 'स्फुलिङ्ग'शब्दो लिङ्गत्रयेऽपि वर्तत इत्यर्थः । तथा मिथुने स्त्रीपुंसयोस्तु 'द्वयोः' इति पदम् । यथा-'वहेर्द्वयोर्खालकीलौ' (११३) । तथा निषिद्धलिङ्गं शेषार्थम् । यत्र लिङ्गं निषिद्धं तत्र तदवशिष्टं लिग झेयम् । यथा'व्योमयानं विमानोऽत्री' (९५)इत्यत्र श्रीलिङ्गे निषिद्धे विमानस्य पुनपुंसकविधिः । तथा 'तु'शब्दोऽते यस्य तत् 'त्वन्तम्' । 'अयशन्द आदिर्यस्य तत् 'भयादि ।
For Private and Personal Use Only