________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४०
अमरकोषे
[७. लिङ्गादिसंग्रहवर्गः
वटकश्चानुवाकश्च रल्लकश्च कुडङ्गकः
२९२८ पुलो न्यूजः समुद्गश्च विटपट्टधटाः खटाः २९२९ कोट्टारघट्टहट्टाश्च पिण्डगोण्डपिचण्डवत्
२९३० गडुः करण्डो लगुडो वरण्डश्च किणो घुणः २९३१ पतिसीमन्तहरितो रोमन्थोद्गीथबुद्बुदाः
२१३२ समर्दोऽर्बुदः कुन्दः फेनस्तूपौ सयूपको २९३३
तपः क्षत्रिये नाभिः कुणपक्षुरकेदराः २९३४ पूरक्षुरप्रचुक्राश्च गोलहिङ्गुलपुद्गलाः
२९३५ वेतालभल्लमल्लाश्च पुरोडाशोऽपि पट्टिशः २९३६ कुल्माषो रभसश्चैव सकटाहः पतन्द्रहः
२९३७ ( अथ पुंनपुंसकसङ्ग्रहः) द्विहीनेऽन्यच्च खारण्यपर्णश्वभ्रहिमोदकम् २९३८ शीतोष्णमांसरुधिरमुखाक्षिद्रविणं बलम्
२९३९ फलहेमशुल्बलोहसुखदुःखशुभाशुभम्
२९४० वटकः, अनुवाकः, रल्लकः, कुडङ्गकः, पुङ्खः, न्यूजः, समुद्रः, विटः, पहः, घटः, खटः, कोट्टः, अरपट्टः, हट्टः, पिण्डः, गोण्डः, पिचण्डः, पिचण्डवत् गण्ड्वादयोऽपि पुंसि स्युरिति वता निर्दिश्यते । गडः, करण्डः, लगुडः, वरण्डः, किणः, धुणः, दृतिः, सीमन्तः, हरित् , रोमन्थः, उद्गीथः, बुद्बुदः, कासमर्दः, अर्बुदः, कुन्दः, फेनः, स्तूपः, यूपः, आतपः, क्षत्रिये नाभिः, कुणपः, शुरः, केदरः, पूरः, क्षुरप्रः, चुक्रः, गोलः, हिङ्गलः, पुद्गलः, वेतालः, भल्लः, मलः, पुरोडाशः, पट्टिशः, कुल्माषः, रभसः, सकटाहः, पतगृहः, इति ॥ द्विहीने द्वाभ्यां स्त्रीपुंसाभ्यां हीने नपुंसके । अधिकारोऽयमाबाहिकात् । श्लोकद्वये प्राधान्येन निर्दिष्टाः खादिशब्दाः षड्विंशतिः पर्यायैः सह क्लीबे । अत्रान्यदिति बाधितात् यदन्यत्तदेव क्लीवमिति सावधानार्थमुक्तम् । चकाराद्वस्त्राभरणादिसंग्रहः । खम् , अरण्यम्, पर्णम् , श्वभ्रम् , हिमम् , उदकम्, शीतम् , उष्णम्, मांसम्, रुधिरम् , मुखम् , अक्षि, द्रविणम् , बलम् , फलम् , हेम, शुल्बम् , लोहम् , सुखम् , दुःसम् , शुभम् , अशु
For Private and Personal Use Only