________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पङ्कयः २६६१-२६८५] तृतीयं काण्डम् विष्टरो विटपी दर्भमुष्टिः पीठाद्यमासनम् द्वारि द्वाःस्थे प्रतीहारः प्रतीहार्यप्यनन्तरे विपुले नकुले विष्णो बर्ना पिङ्गले त्रिषु सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु दुरोदरो द्यूतकारे पणे द्यूते दुरोदरम् महारण्ये दुर्गपये कान्तारं पुंनपुंसकम् मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु देवाद्वृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्प्रिये वंशाङ्कुरे करीरोऽस्त्री तरुभेदे घटे च ना ना चमूजघने हस्तसूत्रे प्रतिसरोऽस्त्रियाम् यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु
२२७
For Private and Personal Use Only
२६७४
२६७५
२६७६
२६७७
२६७८
२६७९
२६८०
२६८१
२६८२
२६८३
२६८४
२६८५
दर्भमुष्टिः 1 पीठमाद्यं यस्य तदासनं च विष्टरः । 'आय' शब्दात् कृष्णाजिनादि । द्वारि, द्वाःस्थे द्वारपाले च प्रतीहारः । अनन्तरोके प्रतीहारे प्रतीहारीत्यपिशब्दः । विपुल इति नकुलविशेषणम् । तेन विशाले नकुले विष्णौ च बभ्रुः पुंसि । पिङ्गले त्रिषु । स्थिरांशो वृक्षादेः कठोरभागः । तत्र यथा - शिंशपासारः । न्याय्ये न्यायादनपेते वरे श्रेष्ठे बले व सारः । द्यूतकारे दुरोदरश्चतुरक्षरः । द्यूते दुरोदरं क्लीबम् । महारण्ये दुर्गपथे दुर्गमवर्त्मनि च कान्तारम् । पुं-नपुंसकम् । अन्यशुभ्रद्वेषे परसंपत्यसहने मत्सरः । पुंसि । तद्वति मात्सर्ययुके कृपणे च मत्सरोऽभिधेयलिङ्गकः । देवाद्देवसकाशाद्भुवेऽमीप्सिते वरः । पुंसि । श्रेष्ठे त्रिषु । मनाप्रिये ईषदिष्टे क्लीबम् । वंशस्य वेणोरङ्कुरे करीरः । पुं- नपुंसकयोः । तरुमेदे घटे च ना पुमान् । चमूजधने सेनापश्चाद्भागे प्रतिसरो ना पुंल्लिङ्गः । हस्तसूत्रे पुंनपुंसकयोः । यमादिषु चतुर्दशसु हरिशब्दो वर्तते । तत्र त्रयोदशसु ना पुमान् । कपिलवर्णे त्रिलिङ्गः । कर्परांशे सिकतासु