________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पक्लयः २५५९-२५८४ ] तृतीय काण्डम्
मारणे मृतसंस्कारे गतौ द्रव्येऽर्थदापने निर्वर्तनोपकरणानुव्रज्यासु च साधनम् निर्यातनं वैरशुद्धौ दाने न्यासार्पणेऽपि च व्यसनं विपदि भ्रंशे दोषे कामजकोपजे पक्ष्माक्षिलोनि किंजल्के तन्त्वाद्यंशेऽप्यणीयसि तिथिभेदे क्षणे पर्व वर्त्म नेत्रच्छदेऽध्वनि अकार्यगु कौपीनं मैथुनं संगतौ र प्रधानं परमात्मा धीः प्रज्ञानं बुद्धिचिह्नयोः प्रसूनं पुष्पफलयोर्निधनं कुलनाशयोः क्रन्दने रोदनाह्वाने वर्ष्म देहप्रमाणयोः गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे संनिवेशे च संस्थानं लक्ष्म चिह्नप्रधानयोः आच्छादने संपिधानमपवारणमित्युभे
२१९
For Private and Personal Use Only
२५७२
२५७३
२५७४
२५७५
२५७६
२५७७
२५७८
२५७९
२५८०
२५८१
२५८२.
२५८३.
२५८४
स्वातन्त्र्यकृत्येऽपि व्युत्थानम् । मारणाद्यष्टके सैन्ये मेद्रे च साधनमिति नाम । वैरशुद्धौ दाने त्यागे न्यासार्पणे निक्षिप्तद्रव्यस्य अर्पणे निर्यातनम् । भ्रंशे अपाये पतने वा । दोष इत्यस्य प्रत्येकं संबन्धः । कामजदोषस्तु मृगयाद्यूतस्त्रीमद्यपानेषु प्रसक्तिः । कोपजदोषस्तु वाक्पारुष्यादिः, तत्र व्यसनम् । अक्षिलोम्नि चक्षुर्लोनि, किञ्जल्के केसरे, अणीयसि तन्त्वायंशे अल्पतरे सूत्राद्यंशे पक्ष्मेति । तिथिभेदेऽष्टमीदर्शादौ क्षणे उत्सवे पर्व । नेत्रपिधायकचर्मपुटे अध्वनि मार्गे वर्त्म | अकार्ये अकरणार्हे गुह्य उपस्थे कौपीनम् । संगतौ भार्यादिसंबन्धे । रते सुरते मैथुनं स्यात् । धीः बुद्धिः । महामात्रे परमात्मनि च प्रधानम् । बुद्धिचिह्नयोः प्रज्ञानम् । पुष्पे फले च प्रसूनम् । कुलनाशयोर्निधनम् । रोदनमाह्वानमारावः । उभे क्रन्दनसंज्ञे । देहः प्रमाणमियप्ता । उभयोर्वर्ष्म । गृहादीनि चत्वारि धामशब्दवाच्यानि । चतुष्पथे शृङ्गाटके । संनिवेशे अवयवविभागे संस्थानम् । चिह्ने प्रधाने लक्ष्म । संपिधानं तिरोधानम् । अपवारणं वस्त्रादिना परिवृतिः । वस्त्रेऽपि आच्छादनम् । साधने निष्पादने । अवाप्तौ लाभे । तोषणे तुष्टौ आराधनं