________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पङ्क्तयः २५३४-२५५८ ]
तृतीयं काण्डम्
ग्रावाणौ शैलपाषाणौ पत्रिणौ शरपक्षिणी तरुशैलौ शिखरिणौ शिखिनो वह्निर्हिणौ प्रतियत्नावुभौ लिप्सोपग्रहावथ सादिनौ द्वौ सारथियारोौ वाजिनोऽश्वेषुपक्षिणः कुलेऽप्यभिजनो जन्मभूम्यामप्यथ हायनाः वर्षाचित्रहिभेदाश्च चन्द्राग्नयक विरोचनाः
शेऽपि वृजिनो विश्वकर्मार्कसुर शिल्पिनोः आत्मा यत्रो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च शको घातुकमत्तेभो वर्षुकाब्दो घनाघनः घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे अभिमानोऽर्थादिदर्पे ज्ञाने प्रणयहिंसयोः इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे वाणिन्यौ नर्तकी दूत्यौ स्रवन्त्यामपि वाहिनी
२१७
For Private and Personal Use Only
२५४६
२५४७
२५४८
२५४९
२५५०
२५५१
२५५२
२५५३
२५५४
२५५५
२५५६
२५५७
२५५८
जातिः । एतेषु पृथग्जन इति चतुरक्षरम् । शैले पाषाणे व ग्रावन् । श पक्षिणि च पत्रिन् । तरौ शैले च शिखरिन् । वहौ बर्हिणि मयूरे च शिखिन् । लिप्सा वाञ्छा । उपग्रह अनुकूलनम् । उभौ प्रतियत्नौ । सारथिरश्वारोहश्व सादिनौ । अश्वो हयः इषुः शरः पक्षी चैते वादिनः । कुले कुलमुख्ये च जन्मभूम्यां जननस्थाने अभिजनः । वर्षोऽब्दः । अर्चीीं रश्मिः व्रीहिभेदते हायनाः । चन्द्रेऽग्नावर्के प्रह्लादपुत्रेऽपि विरोचनः । क्लेशे कल्मषेऽपि क्लीबं वृजिनम् । अर्के सुरशिल्पिनि च विश्वकर्मा । अततीत्यात्मा, धृतिः बुद्धिः स्वभावः ब्रह्म वर्ष्म च यत्नः । शक्र इन्द्रः । धातुकश्चासौ मत्तेभश्चेति कर्मधारयः, तथा वर्षुकश्चासावब्दश्चेति घनाघनः इति चतुरक्षरं नाम । मूर्तिगुणे काठिन्ये मेघे च घनः पुंसि, मूर्ते कठिने निरन्तरे सान्द्रे च त्रिषु । अर्थपशुकुलगुणादिभिर्यो दर्पस्तस्मिन् ज्ञाने प्रणये हिंसायां चाभिमानः । प्रभौ नृपे च पत्यो वा इनः । मृगाङ्के क्षत्रिये नृपे च राजशब्दः । नर्तकीदूत्यौ वाणिन्यौ । स्रवन्त्यां नयां सेनायामपि वाहिनी । वज्रं कुलिशम् । तडिद्विद्युत् ह्रादिनी ।