SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पतयः २३४३-२३६९] तृतीयं काण्डम् । व्याघेऽपि पुण्डरीको ना यवान्यामपि दीपकः २३५७ शालावृकाः कपिक्रोष्टुश्वानः स्वर्णेऽपि गैरिकम् २३५८ पीडार्थेऽपि व्यलीकं स्यादलीकं त्वप्रियेऽनृते २३५९ शीलान्वयावनूके द्वे शल्के शकलवल्कले २३६० साष्टे शते सुवर्णानां हेम्युरोभूषणे पले २३६१ दीनारेऽपि च निष्कोऽस्त्री कल्कोऽस्त्री शमलैनसोः २३६२ दम्भेऽप्यथ पिनाकोऽस्त्री शूलशंकरधन्वनोः २३६३ धेनुका तु करेण्वां च मेघजाले च कालिका २३६४ कारिका यातनावृत्त्योः कर्णिका कर्णभूषणे २३६५ करिहस्तेऽङ्गलौ पद्मबीजकोश्यां त्रिषूत्तरे २३६६ वृन्दारको रूपिमुख्यावेके मुख्यान्यकेवलाः २३६७ स्थाद्दाम्भिकः कौकुटिको यश्चादूरेरितेक्षणः २३६८ लालाटिकः प्रभोर्भालदर्शी कार्याक्षमश्च यः २३६९ 'भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम् * * सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः * * च पुण्डरीकः पुंसि । यवान्यां 'अपि'शब्दादर्हिचूडे प्रकाशेऽपि दीपकः । कपिक्रोष्टुश्वानः शालावृकाः स्युः । वर्णे अपि'शब्दाद्गारेकधातौ च गैरिकम् । पीडार्थेऽपिशब्दाद्वैलक्ष्येऽपि व्यलीकम् । अप्रियेऽनृते च अलीकम् । शीलं खभावोऽन्वयो वंशः तत्र अनूकमिति । शकलं, वल्कलं, २ शल्के इति। सुवर्णानां साष्टे शते हेन्नि उरसो भूषणे हेमपले दीनारे च निष्कः। शमलं एनः दम्भः त्रिषु कल्कः । पुं-नपुंसकयोः । शूले शंकरधन्वनि च पिनाकः अस्त्रियाम् । करेण्वां हस्तिन्यां चकारानवप्रसूतायां गवि धेनुका । मेघजाले चकाराद्देवताविशेषेऽपि कालिका। यातनायां वृत्तौ च कारिका । कर्णभूषणे करिहस्तेऽङ्गुलौ कमलान्तर्गतकोषे च कर्णिका । उत्तरे खान्तेभ्यः प्राक् शब्दात्रिषु । रूपिमुख्ययोः वृन्दारक इति । मुख्य अन्ये केवलं एकः । दाम्भिकः योऽदूरेरितेक्षणः स कौकुटिक इति । यो भृत्यः प्रभो लं पश्यति यश्च कार्याक्षमः तावुभौ लालाटिको। For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy