________________
Shri Mahavir Jain Aradhana Kendra
www.k
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९९
२३३३ २३३४ २३३५
पतयः २३२०-२३४२ ] तृतीयं काण्डम् खलानां खलिनी खल्याप्यथ मानुष्यकं नृणाम् ग्रामता जनता धूम्या पाश्या गल्या पृथक्पृथक् अपि साहस्रकारीषवार्मणाथर्वणादिकम्
५. नानार्थवर्गः नानार्थाः केऽपि कान्तादिवर्गेष्वेवात्र कीर्तिताः भूरिप्रयोगा ये येषु पर्यायेष्वपि तेषु ते आकाशे त्रिदिवे नाको लोकस्तु भुवने जने पद्ये यशसि च श्लोकः शरे खड्ने च सायकः जम्बुको क्रोष्टुवरुणौ पृथुको चिपिटाभको आलोकौ दर्शनद्योती भेरीपटहमानको उत्सङ्गचिह्नयोरङ्कः कलङ्कोऽङ्कापवादयोः
२३३६ २३३७ २३३८ २३३९ २३४० २३४१ २३४२
पृष्टयम् १ ॥-खलिनी, खल्या, इति २ खलानां समूहस्य । मनुष्याणां समूहो मानुष्यकम् १ । ग्रामता, जनता, धूम्या, पाश्या, गल्या, साहस्रम् , कारिषम् , वार्मणम् , आथर्वणम् , इत्यादयः ॥
२३३६-२८४९ अत्र वक्ष्यमाणेषु । कान्तादिवर्गेष्वेव केऽपि नानार्था उक्का नतु प्रागुक्तपयोयेषु । यथा 'मारते वेधसि ब्रने पुंसि. कः कं शिरोऽम्बुनोः' इति । भूरिप्रयोगा यत्र कुत्रापि काव्यादिषु कविभिः प्राचुर्येण प्रयुक्ता ये नाकलोकादयः शब्दास्ते पूर्वोक्तेषु येषु पयोयेषु दृश्यन्ते तेषु पर्यायेषु 'अपि'शब्दादत्रापि कान्तादिषु कीर्तिताः।यथा नाकशब्दः प्रचुरप्रयोगत्वात्प्राक् खर्याकाशयोरुक्तोऽपि पुनरिहोकः। जम्बुकशब्दस्तु शृगालपर्यायेष्वेवोक्तो नतु वरुणपर्यायेषु; भूरिप्रयोगत्वाभावात् । इह तु 'जम्बुको क्रोष्टुवरुणौ' इत्युभयत्रोच्यते । नाक इति आकाशे खर्गे च वर्तते । भुवने जने च लोक इति १ । पद्ये यशसि च श्लोक इति १ । शरे खड़े च सायकः । कोष्टा मृगालः, वरुणः प्रसिद्धः, उभौ जम्बुकशब्दवाच्यौ । चिपिटः, अर्भकः, एतावुभौ पृथुको। दर्शनं प्रकाशश्चालोको। मेरी पटहं उभावानको। उत्सझे चिहे चाडः । चिह्न दोषारोपे च कलङ्कः । नागविशेषे त्वष्टरि च
For Private and Personal Use Only