________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९६ ममरको
[४. संकीर्णवर्गः नीवाकस्तु प्रयामः स्यात् संनिधिः संनिकर्षणम् २२९६ लवोऽभिलावो लवने निष्पावः पवने पवः २२९७ प्रस्तावः स्यादवसरत्रसरः सूत्रवेष्टनम्
२२९८ प्रजनः स्यादुपसरः प्रश्रयप्रणयौ समौ
२२९९ धीशक्तिनिष्क्रमोऽस्त्री तु संक्रमो दुर्गसंचरः
२३०० प्रत्युत्क्रमः प्रयोगार्थः प्रक्रमः स्यादुपक्रमः
२३०१ स्यादन्यादानमुद्धात आरम्भः संभ्रमस्त्वरा २३०२ प्रतिबन्धः प्रतिष्टम्भोऽवनायस्तु निपातनम् २३०३ उपलम्भस्त्वनुभवः समालम्भो विलेपनम् २३०४ विप्रलम्भो विप्रयोगो विलम्भस्त्वतिसर्जनम् २३०५ विश्रावस्तु प्रतिख्यातिरवेक्षा प्रतिजागरः
२३०६ इति २ धनधान्यादिषु जनानामादरातिशयस्य ॥-संनिधिः, संनिकर्षणम् , इति २ नैकट्यस्य ॥ लवः, अभिलावः, लवनम् , इति ३ धान्यादिच्छेदनस्य ॥-निष्पावः, पवनम् , पवः, इति ३ धान्यादीनां पूतीकरणस्य ॥--प्रस्तावः, अवसरः, इति २ प्रसंगस्य ॥-त्रसरः, सूत्रवेष्टनम् , इति २ तन्तुघायकृतसूत्रवेष्टनमेदस्य ॥-प्रजनः, उपसरः, इति २ गर्भग्रहणस्य ॥-प्रश्रयः, प्रणयः, इति २ प्रेम्णः ॥-धीशक्तिः, निष्क्रमः, इति २ बुद्धिसामर्थ्य ॥-संक्रमः, दुर्गसंचरः, इति २ दुर्गमार्गस्य । स न स्त्रियाम् ॥–प्रत्युत्क्रमः, प्रयोगार्थः, इति २ युद्धार्थमतिशयितोद्योगस्य ॥प्रक्रमः, उपक्रमः, इति २ प्रथमारम्भस्य ॥-अभ्यादानम् , उद्धातः, आरभ्भः, इति ३ आरम्भमात्रस्य ॥-संभ्रमः, त्वरा, इति २ संवेगस्य ।।प्रतिबन्धः, प्रतिष्टम्भः, इति २ कार्यप्रतिघातस्य ॥--अवनायः, निपातनम् , इति २ अघोनयनस्य ॥-उपलम्भः, अनुभवः, इति २ साक्षात्कारस्य ॥-समालम्भः, विलेपनम् , इति २ कुडमादिना विलेपने ॥–विप्रलम्भः, विप्रयोगः, इति २ रागिणोर्विच्छेदस्य ॥-विलम्भः, अतिसर्जनम्, इति २ अतिदानस्य ।-विश्रावः, प्रतिख्यातिः, इति २ अतिप्रसिद्धः ॥-अवेक्षा, प्रतिजागरः, इति २ वस्तूनां अवेक्षणस्य ॥-निपाठः, निपठः, पाठः,
For Private and Personal Use Only