SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पलयः १६१९-१६४५] द्वितीयं काण्डम् धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम् १६३३ इष्वासोऽप्यथ कर्णस्य कालपृष्ठं शरासनम् १६३४ कपिध्वजस्य गाण्डीवगाण्डिवी पुनपुंसको १६३५ कोटिरस्याटनी गोधे तले ज्याघातवारणे १६३६ लस्तकस्तु धनुर्मध्यं मौर्वी ज्या शिञ्जिनी गुणः १६३७ स्यात्प्रत्यालीढमालीढमित्यादि स्थानपञ्चकम् १६३८ लक्षं लक्ष्यं शरव्यं च शराभ्यास उपासनम १६३९ पृषत्कबाणविशिखा अजिह्मगखगाशुगाः १६४० कलम्बमार्गणशराः पत्री रोप इषुद्धयोः १६४१ प्रक्ष्वेडनास्तु नाराचाः पक्षो वाजस्त्रिघूत्तरे १६४२ निरस्तः प्रहिते बाणे विषाक्ते दिग्धलिप्तको १६४३ तूणोपासङ्गतूणीरनिषङ्गा इषुधियोः १६४४ तूण्यां खड्ग तु निस्त्रिंशचन्द्रहासासिरिष्टयः १६४५ मात्रस्य ॥-धनुः, चापः, धन्व, शरासनम् , कोदण्डम् , कार्मुकम् , इष्वासः, इति धनुषः। तत्र धनुश्वापे क्लीबे पुंसि च । कर्णस्य धनुः कालपृष्ठं स्यात् १॥ ----गाण्डीवः, गाण्डिवः, इति २ अर्जुनस्य धनुषि । क्लीवेऽपि । कोटिः, अटनी, इति २ धनुषः प्रान्ते ॥-गोधा, तलम् , इति २ ज्याघातवारणे । धनुषो मध्यं लस्तक इति १ ॥--मौर्वी, ज्या, शिजिनी, गुणः, इति ४ धनुगुणस्य । प्रत्यालीढं, आलीढं इत्यादयः पञ्च धनुर्धराणां स्थितिमेदाः । आदिना समपदम्, वैशाखम् , मण्डलं च ।।-लक्षम् , लक्ष्यम् , शरव्यम्, इति ३ वेध्यस्य।-शराभ्यासः, उपासनम् , इति २शरक्षेपाभ्यासस्य।-पृषत्कः बाणः, विशिखः, अजिह्मगः, खगः, आशुगः, कलम्बः, मार्गणः, शरः, पत्री, रोपः, इषुः, इति १२ बाणस्य । तत्रेषुः स्त्रीपुंसयोः ॥-प्रक्ष्वेडनः, नाराचः, इति २ लोहमयस्य बाणस्य ॥-पक्षः, वाजः, इति २ कड्वादिपक्षस्य । उत्तरे निरस्तादिलिप्तकान्तास्त्रिषु । प्रहिते बाणे निरस्त इति १ ॥ विषाकः, दिग्धः, लिप्तकः, इति ३ विषाक्त बाणे ॥-तूणः, उपासकः, तूणीरः, निषङ्गः, इषधिः, तूणी, इति ६ इषुधेः । इषुधिः स्त्रीपुंसयोः।-साः,निविंशः, चन्द्रहासः, For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy