________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पतयः १५१५-१५४०] द्वितीय काण्डम्
महीभुजामहिभयं स्वपक्षप्रभवं भयम्
१५२८ प्रक्रिया त्वधिकारः स्याच्चामरं तु प्रकीर्णकम् १५२९ नृपासनं यत्तद्भद्रासनं सिंहासनं तु तत्
१५३० हैमं छत्रं त्वातपत्रं राज्ञस्तु नृपलक्ष्म तत् १५३१ भद्रकुम्भः पूर्णकुम्भो भृङ्गारः कनकालुका १५३२ निवेशः शिबिरं षण्ढे सजनं तूपरक्षणम्
१५३३ हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयम् १५३४ दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः १५३५ मतङ्गजो गजो नागः कुञ्जरो वारणः करी १५३६ इभः स्तम्बरमः पद्मी यूथनाथस्तु यूथपः १५३७ मदोत्कटो मदकलः कलभः करिशावकः १५३८ प्रभिन्नो गर्जितो मत्तः समावुद्वान्तनिर्मदौ १५३९ हास्तिकं गजता वृन्दे करिणी धेनुका वशा १५४० राज्ञां स्वपक्षप्रभवं भयं अहिभयं स्यात् १॥-प्रक्रिया, अधिकारः, इति २ व्यवस्थास्थापनस्य ॥-चामरम् , प्रकीर्णकम् , इति २ चामरस्य ॥-नृपासनम् , भद्रासनम् , इति २ मण्यादिकृतराजासनस्य । तन्नृपासनं स्वर्णनिर्मितं चेत्सिहा. सनं स्यात् १॥-छत्रम् , आतपत्रम् , इति २ छत्रस्य । राज्ञश्वेच्छत्रं तर्हि नृपलक्ष्म स्यात् १ ॥---भद्रकुम्भः, पूर्णकुम्भः, इति २ पूर्णघटस्य ॥-मृङ्गारः, कनकालुका, इति २ स्वर्णरचितपात्रविशेषस्य ।।-निवेशः, शिबिरम्, इति २ सैन्यवासस्थानस्य ॥-सजनम् , उपरक्षणम् , इति २ सैन्यरक्षणाय नियुक्तप्रहरिकादिविन्यासस्य । हस्त्यादिचतुष्टयं सेनाङ्गं स्यात् १॥-दन्ती, दन्तावलः, हस्ती, द्विरदः, अनेकपः, द्विपः, मतङ्गजः, गजः, नागः, कुञ्जरः, वारणः, करी, इभः, स्तम्बेरमः, पद्मी, इति १५ हस्तिनः ॥-यूथनाथः, यूथपः, इति २ यूथमुख्यस्य गजस्य ॥-मदोत्कटः,मदकलः, इति २ मन्दोन्मत्तस्य॥-कलभः, करिशावकः, इति २ करिपोतस्य ॥-प्रभिन्नः, गर्जितः, मत्तः, इति ३ क्षरन्मदस्य ॥-उद्वान्तः, निर्मदः, इति २ गतमदस्य ॥ हास्तिकम् , गजता, इति २
For Private and Personal Use Only