________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पक्कयः १४१३-१४३६ ] द्वितीयं काण्डम्
'प्राचेतसश्चादिकविः स्यान्मैत्रावरुणिश्च सः वाल्मीकश्चाथ गाधेयो विश्वामित्रश्च कौशिकः व्यासो द्वैपायनः पाराशर्यः सत्यवतीसुतः' आनुपूर्वी स्त्रियां वावृत् परिपाटी अनुक्रमः पर्यायश्चातिपातस्तु स्यात्पर्यय उपात्ययः नियमो व्रतमस्त्री तोपवासादि पुण्यकम् औपवस्तं तूपवासो विवेकः पृथगात्मता स्याद्ब्रह्मवर्चसं वृत्ताध्ययनर्द्धिरथाञ्जलिः पाठे ब्रह्माञ्जलिः पाठे विप्रुषो ब्रह्मविन्दवः ध्यानयोगासने ब्रह्मासनं कल्पे विधिक्रमौ मुख्यः स्यात्प्रथमः कल्पोऽनुकल्पस्तु ततोऽधमः संस्कारपूर्व ग्रहणं स्यादुपाकरणं श्रुतेः समे तु पादग्रहणमभिवादनमित्युभे भिक्षुः परिव्राट् कर्मन्दी पाराशर्यपि मस्करी तपस्वी तापसः पारिकाङ्क्षी वाचंयमो मुनिः
१२५
For Private and Personal Use Only
***
***
**
१४२५
१४२६
१४२७
१४२८
१४२९
१४३०
१४३१
१४३२
१४३३
१४३४
१४३५
१४३६
उपा
परिपाटी, अनुक्रमः पर्यायः, इति ५ अनुक्रमस्य ॥ अतिपातः, पर्ययः, त्ययः, इति ३ अतिक्रमस्य ॥ नियमः, व्रतम् इति २ व्रतमात्रस्य ॥औपवस्तम्, उपवासः, इति २ उपवासस्य । पृथगात्मता विवेकः स्यात् १ | वृत्तमध्ययनं तयोर्ऋद्धिः ब्रह्मवर्चसमिति १ । पाठे वेदपठने योऽञ्जलिः स ब्रह्माञ्जलिः, अध्ययन स्यादा हस्तयोर्हि प्रणवोच्चार पूर्वकमञ्जलिः क्रियते । वेदपाठे विप्रुषो ब्रह्मबिन्दवः स्युः । ध्यानयोगयोरासने ब्रह्मासनमिति १॥ कल्पः, विधिः, क्रम:, इति ३ नियोगशास्त्रस्य । यः प्रथमः कल्पः स मुख्यः स्यात् १ | ततोऽधमः अनुकल्पः स्यात् १॥ संस्कारपूर्वकं श्रुतेर्ग्रहणं उपाकरणं स्यात् १| पादग्रहणम्, अभिवादनम्, इति २ नामगोत्रोक्तिपूर्वकस्य नमस्कारविशेषस्य ॥ - मिक्षुः, परिवाद, कर्मन्नी, पाराशरी, मस्करी, इति ५ संन्यासिनः॥ तपखी, तापसः, पारि