________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०६
अमरकोषे
[७. मनुष्यवर्गः
उन्मत्त उन्मादवति श्लेष्मलः श्लेष्मणः कफी ११९४ न्युब्जो भुग्ने रुजा वृद्धनाभौ तुन्दिलतुन्दिभौ ११९५ किलासी सिध्मलोऽन्धोऽहमूर्छाले मूर्तमूछितौ ११९६ शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च ११९७ मायुः पित्तं कफः श्लेष्मा स्त्रियां तु त्वगसृग्धरा ११९८ पिशितं तरसं मांसं पललं क्रव्यमामिषम् ११९९ उत्तप्तं शुष्कमांसं स्यात्तद्वल्लूरं त्रिलिङ्गकम् १२०० रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम्
१२०१ बुक्काऽग्रमांसं हृदयं हृन्मेदस्तु वपा वसा
१२०२ पश्चाद्रीवाशिरा मन्या नाडी तु धमनिः शिरा १२०३ तिलकं क्लोम मस्तिष्कं गोर्दै किमु मलोऽस्त्रियाम् १२०४ वर्तन्ते॥-उन्मत्तः, उन्मादवान् , इति २ उन्मादयुक्तस्य॥–श्लेष्मलः,श्लेष्मणः, कफी, इति ३ कफयुक्तस्य ॥-रुजा रोगेण भुग्नो चक्रपृष्ठोऽधोमुखस्तत्र न्युज इति । वृद्धनाभिः, तुन्दिलः, तुन्दिभः, इति ३ वातादिनोन्नतनामः ॥ किलासी, सिध्मलः, इति २ सिध्मयुक्तस्य ॥-अन्धः, अक्, इति २ दृष्टिहीनस्य ॥-मूर्छालः, मृर्तः, मृतिः , इति ३ मूर्छायुक्तस्य ॥-शुक्रम् , तेजः, रेतः, बीजम् , वीर्यम् , इन्द्रियम् , इति ६ रेतसः ॥मायुः, पित्तम् , इति २ पित्तस्य ॥-कफः, श्लेष्मा, इति २ कफस्य ॥त्वक्, असृग्धरा, इति २ चर्मणः ॥–पिशितम् , तरसम् , मांसम् , पललम् , क्रव्यम् , आमिषम् , इति ६ मांसस्य ॥-उत्तप्तम् , शुष्कमांसम् , वल्लूरम् , इति ३ शुष्कमांसस्य ॥ तत्र वल्लूरं त्रिषु ॥-रुधिरम् , असृक्, लोहितम् , अस्रम् , रक्तम् , क्षतजम् , शोणितम् , इति ७ रक्तस्य ॥-बुक्का, अग्रमांसम् , इति २ हृदयान्तर्गतपद्माकारमांसभेदस्य ॥-हृदयम् , हृत् , इति २ हृदयाख्यनिम्नदेशस्य ॥-मेदः, वपा नसा, इति ३ मांसजन्यस्नेहस्य ॥-या पश्चात्स्थिता ग्रीवाशिरा सामन्येत्यु गते १॥--नाडी, धमनिः, शिरा, इति ३ शिरायाः॥तिलकम् , क्लोम, इति २ मांसपिण्डविशेषस्य । क्लोमं इत्यदन्तमपि ॥-मस्तिकम् , गोर्दम्, इति २ मस्तकसंभूतघृताकारस्नेहस्य ॥-किट्टम् , मलः,
For Private and Personal Use Only