________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पतयः ११०२-११२५] द्वितीयं काण्डम् स्त्रीधर्मिण्यविरात्रेयी मलिनी पुष्पवत्यपि १११४ ऋतुमत्यप्युदक्यापि स्याद्रजः पुष्पमार्तवम् १११५ श्रद्धालुर्दोहदवती निष्कला विगतार्तवा
१११६ आपन्नसत्त्वा स्याद्गुर्विण्यन्तर्वत्नी च गर्भिणी १११७ गणिकादेस्तु गाणिक्यं गार्भिणं यौवतं गणे १११८ पुनर्भूदिधिषूरूढा द्विस्तस्या दिधिषुः पतिः १११९ स तु द्विजोऽग्रेदिधिषूः सैव यस्य कुटुम्बिनी ११२० कानीनः कन्यकाजातः सुतोऽथ सुभगासुतः ११२१ सौभागिनेयः स्यात्पारस्त्रैणेयस्तु परस्त्रियाः ११२२ पैतृष्वसेयः स्यात्पैतृष्वस्रीयश्च पितृष्वसुः ११२३ सुतो मातृष्वसुश्चैवं वैमात्रेयो विमातृजः
११२४. अथ बान्धकिनेयः स्याद्वन्धुलश्चासतीसुतः ११२५ शुभाशुभनिरूपिण्याः ॥-रजखला, स्त्रीधर्मिणी, अविः, आत्रेयी, मलिनी, पुष्पवती, ऋतुमती, उदक्या, इति ८ रजखलायाः ॥-रजः, पुष्पम् , आर्तवम्, इति ३ स्त्रीरजसः ॥–श्रद्धालुः, दोहदवती, इति २ गर्भवशादनादिविशेषाभिलाषिण्याः ॥-निष्कला, विगतार्तवा, इति २ हीनरजस्कायाः ॥-आपन्नसत्त्वा, गुर्विणी, अन्तर्वनी, गर्भिणी, इति ४ गर्भिण्याः ॥गणिकानां समूहो गाणिक्यम् १ । गर्भिणीनां समूहो गार्भिणम् १ । युवतीनां समूहो यौवतम् १ । या द्विरूढा द्विवारं वृता तत्र पुनर्भूः, दिधिषः, इति २ । तस्या द्विरूढायाः पतिर्दिधिषुरित्युच्यते इति १ ॥-सा पुनर्भूर्यस्ख द्विजस्य कुटुम्बिनी कुटुम्बं पुत्रादिपोष्यवर्गस्तद्वती सोऽग्रेदिधिषूरिति १ ॥कन्यकाया अनूढाया जातः सुतः कानीन इत्युच्यते इति १॥-सुभगासुतः, सौभागिनेयः, इति २ सुभगापुत्रस्य । यः परस्त्रियाः सुतः पारस्त्रैणेयः इति १॥ पितृष्वसुः पितृभगिन्याः सुतः पैतृष्वसेयः, पैतृष्वस्त्रीयः, इति २॥-मातृध्वसुः सुतोऽप्येवम् , यथा-मातृष्वसेयः,मातृष्वनीयः, इति २॥-विमाता मातुः सपत्नी तस्याः पुत्रौ वैमात्रेय इत्युच्यते इति १॥–बान्धकिनेयः, वन्धुलः,
For Private and Personal Use Only