________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पतयः १०४०-१०५३] द्वितीयं काण्डम् पतङ्गिका पुत्तिका स्यादंशस्तु वनमक्षिका १०४१ दंशी तजातिरल्पा स्याद्गन्धोली वरटा द्वयोः १०४२ भृङ्गारी झीरुका चीरी झिल्लिका च समा इमाः १०४३ समौ पतङ्गशलभौ खद्योतो ज्योतिरिङ्गणः १०४४ मधुव्रतो मधुकरो मधुलिण्मधुपालिनः
१०४५ द्विरेफपुष्पलिभृङ्गपट्पदभ्रमरालयः
१०४६ मयूरो बर्हिणो बहीं नीलकण्ठो भुजंगभुक् १०४७ शिखावलः शिखी केकी मेघनादानुलास्यपि १०४८ केका वाणी मयूरस्य समौ चन्द्रकमेचको १०४९ शिखा चूडा शिखण्डस्तु पिच्छबर्हे नपुंसके १०५० खगे विहंगविहगविहंगमविहायसः
१०५१ शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः
१०५२ पतत्रिपत्रिपतगपतत्पत्ररथाण्डजाः
१०५३ कायाः ॥--पतङ्गिका, पुत्तिका, इति २ मधुमक्षिकाभेदस्य ॥-दंशः, वनमक्षिका, इति २ वनमक्षिकायाः। तेषां दंशानां जातिर्या अल्पा सा दंशी इत्युच्यते १॥-गन्धोली, वरटा, इति २ वरटायाः॥-मृङ्गारी, झीरुका, चीरी, झिल्लिका, इति ४ झिल्लिकायाः ॥-पतङ्गः, शलभः, इति २ पतङ्गस्य ॥खद्योतः, ज्योतिरिङ्गणः, इति २ खद्योतस्य ।।--मधुव्रतः, मधुकरः, मधुलिट्, मधुपः, अली, द्विरेफः, पुष्पलिट्, भृङ्गः, षट्पदः, भ्रमरः, अलिः, इति ११ भ्रमरस्य ॥-मयूरः, बर्हिणः, वहीं, नीलकण्ठः, भुजंगभुरु, शिखावलः, शिखी, केकी, मेघनादानुलासी, इति ९ मयूरस्य । मयूरवाणी केका इत्युच्यते इति १॥ -चन्द्रकः, मेचकः, इति २ पिच्छस्य नेत्राकारचिह्नस्य ॥-शिखा, चूडा, इति २ मयूरशिखायाम् ॥-शिखण्डः, पिच्छम् , बर्हम् , इति ३ मयूरपिच्छस्य ॥-खगः, विहंगः, विहगः, विहंगमः, विहायाः, शकुन्तिः, पक्षी, शकुनिः, शकुन्तः, शकुनः, द्विजः, पतत्री, पत्री, पतगः, पतन् , पत्ररथः, अण्डजः, नगाकाः, वाजी, विकिरः, विः, विष्किरः, पतत्रिः,
For Private and Personal Use Only