________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
**
५३१
अमरकोषे [१३. वारिवर्गः स्यादालवालमावालमावापोऽथ नदी सरित्
५२५ तरङ्गिणी शैवलिनी तटिनी हादिनी धुनी स्रोतस्वती द्वीपवती स्रवन्ती निम्नगापगा
५२७ 'कूलंकषा निर्झरिणी रोधोवक्रा सरस्वती' गङ्गा विष्णुपदी जद्भुतनया सुरनिम्नगा
५२८ भागीरथी त्रिपथगा त्रिस्रोता भीष्मसूरपि
५२९ कालिन्दी सूर्यतनया यमुना शमनस्वसा
५३० रेवा तु नर्मदा सोमोद्भवा मेकलकन्यका करतोया सदानीरा बाहुदा सैतवाहिनी
५३२ शतद्रुस्तु शुतुद्रिः स्याद्विपाशा तु विपाट् स्त्रियाम् ५३३ शोणो हिरण्यवाहः स्यात् कुल्याऽल्पा कृत्रिमा सरित् ५३४ शरावती वेत्रवती चन्द्रभागा सरस्वती कावेरी सरितोऽन्याश्च संभेदः सिन्धुसंगमः ५३६ उच्यते ॥-आलवालम् , आवालम् , आवापः, इति ३ वृक्षादिमूले समन्ततोऽम्भसो धारणार्थ यद्वेटनं तस्य ॥-नदी, सरित् , तरङ्गिणी, शैवलिनी, तटिनी, हादिनी, धुनी, स्रोतखती, द्वीपवती, सवन्ती, निम्नगा, आपगा, इति १२ नद्याः ॥--गङ्गा, विष्णुपदी, जहुतनया, सुरनिम्नगा, भागीरथी, त्रिपथगा, त्रिस्रोताः, भीष्मसूः, इति ८ भागीरथ्याः ॥-कालिन्दी, सूर्यतनया, यमुना, शमनस्वसा, इति ४ यमुनायाः ॥-रेवा, नर्मदा, सोमोद्भवा, मेकलकन्यका, इति ४ नर्मदायाः । करतोया, सदानीरा, इति २ गौरीविवाहे कन्यादानोदकाजातायाः ॥-बाहुदा, सैतवाहिनी, इति .२ कार्तवीर्यार्जुनेन या अवतारिता तस्याः ॥- शतद्रुः, शुतुद्रिः, इति २ शतद्राः ॥ विपाशा, विपाट , इति २ पाशमोचिन्याः ॥-शोणः, हिरण्यवाहः, इति २ नदविशेषस्य ॥ -या अल्पा कृत्रिमा सरित् सा कुल्या॥-शरावती, वेत्रवती, चन्द्रभागा, सरखती, कावेरी, इति ५ सरिद्विशेषाः॥ अन्याश्च सरितः कौशिकीगण्डकी-चर्मण्वती-गोदा-वेण्याद्याः सन्तीति शेषः ॥-संभेदः, सिन्धुसंगमः,
For Private and Personal Use Only