________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६
अमरकोषे
कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु पारावारे परार्वाची तीरे पात्रं तदन्तरम् द्वीपोsस्त्रियामन्तरीपं यदन्तर्वारिणस्तम् तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम् निपद्वरस्तु जम्बालः पङ्कोऽस्त्री शादकर्दमौ जलोच्छ्रासाः परवाहाः कूपकास्तु विदारकाः नाव्यं त्रिलिङ्गं नौता स्त्रियां नौस्तरणिस्तरिः उडुपं तु प्लवः कोलः स्रोतोऽम्बुमरणं स्वतः आतरस्तरपण्यं स्याद्रोणी काष्ठाम्बुवाहिनी सांयात्रिकः पोतवणिक कर्णधारस्तु नाविकः
[१३. वारिवर्गः
For Private and Personal Use Only
४८१
४८२
४८३
४८४
४८५
४८६
४८७
૪૮૮
४८९
४९०
-
तेषाम् ॥ कूलम् रोधः, तीरम्, प्रतीरम्, तटम्, इति ५ तीरस्य । 'तटं' त्रिलिङ्गम् ॥ - परं च अर्वाक् च परार्वाची तीरे क्रमेण पारावारे उच्येते । नद्याः परतीरं पारम्, अर्वाक् तीरम् आवारमित्यर्थः ॥ - तयोः पारावारयोरन्तरं मध्यं पात्रमुच्यते ॥ - वारिणोऽन्तर्मध्ये यत्तरं तत् द्वीप इति अन्तरीपम् इति चोच्यते ॥ —– तोयोत्थितं तोयक्रमेणोत्थं तत् पुलिनमुच्यते ॥ - सैकतमू, सिकतामयम्, इति २ वालुकाप्रचुर स्थानस्य ॥ - निषद्वरः, जम्बालः, पङ्कः, शादः, इति ५ कर्दमस्य । तत्र 'पङ्कः' पुंनपुंसकयोः ॥ - जलोच्छ्रासाः, परीवाहाः, इति २ निर्गममार्गैः प्रवृद्धं जलं परिवहति तेषाम् ॥ -- कूपकाः, विदारकाः, इति २ शुष्कनद्यादौ हि जलार्थ गर्ताः क्रियन्ते तेषाम् ॥ - नौतायें नावा तारितुमर्हे जलादौ नाव्यम् । तत्रिषु ॥ - नौः, तरणिः, तरिः, इति ३ नौकायाः ॥ - उडुपम्, लवः, कोलः इति ३ अल्पनौकायाः ॥ खतो यदम्बुसरणं जलगमनं तत् स्रोत उच्यते ॥ - आतरः, तरपण्यम्, इति २ नद्यादितरणे देयमूल्यस्य ॥ - - काष्ठाम्बुवाहिनी काष्ठमयी जलवाहिनी सा द्रोणी उच्यते ॥ सांयात्रिकः, पोतवणिक, इति २ नौकया वाणिज्यकारिणः ॥ -- कर्णधारः, नाविकः, इति २ अरित्रं धृत्वा यस्तारयति तस्य ॥ — नियामकाः, पोतवाहाः, इति २ पोतमध्यस्थितकाष्ठा दुष्टजन्त्वा
--
,
कर्दमः,