________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०१
४०२
४०३
४०४
४०५
पक्लयः ३९०-४११] प्रथमं काण्डम् दारुणं भीषणं भीष्मं घोरं भीमं भयानकम् भयंकरं प्रतिभयं रौद्रं तग्रममी त्रिषु चतुर्दश दरस्त्रासो भीतिभॊः साध्वसं भयम् विकारो मानसो भावोऽनुभावो भाववोधकः गर्वोऽभिमानोऽहंकारो मानश्चित्तसमुन्नतिः 'दर्पोऽवलेपोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः' अनादरः परिभवः परीभावस्तिरस्क्रिया रीढावमाननावज्ञावहेलनमसूक्षणम् मन्दाक्षं ह्रीस्त्रपा ब्रीडा लज्जा साऽपत्रपाऽन्यतः शान्तिस्तितिक्षाऽभिध्या तु परस्य विषये स्पृहा अक्षान्तिरीयोऽसूया तु दोषारोपो गुणेष्वपि वैरं विरोधो विद्वेषो मन्युशोकौ तु शुक् स्त्रियाम्
४०६
४०७ ४०८
४०९
४१० ४११
भीषणम् , भीष्मम् , घोरम् , भीमम् , भयानकम् , भयंकरम् , प्रतिभयम् , इति ९ भयानकस्य ॥-रोद्रम् , उग्रम् , इति २ रौद्रस्य । अमी अनुतादय उप्रान्ताश्चतुर्दश शब्दाः रसे पुंसि । तद्वति तु त्रिषु वाच्यलिङ्गाः ॥-दरः, त्रासः, भीतिः, भीः, साध्वसम् , भयम् , इति ६ भयस्य ॥ मानसः, मनःसंबन्धि विकारो भाव उच्यते ॥-यो भावबोधकश्चित्तविकारस्य प्रकाशकः कटाक्षादिः सोऽनुभाव इत्युच्यते ॥-गर्वः, अभिमानः, अहंकारः, इति ३ गर्वस्य ॥चित्तस्य समुन्नतिः परस्मादुत्कर्षचिन्तनेनौनयं मान उच्यते ॥-अनादरः, परिभवः, परीभावः, तिरस्क्रिया, रीढा, अवमानना, अवज्ञा, अवहेलनम् , असूक्षणम्, इति ९ अनादरस्य ॥-मन्दाक्षम्, ह्रीः, त्रपा, नीडा, लजा, इति ५ लजायाः॥-सा लज्जा अन्यतः परस्मा चेत् अपत्रपा ॥ क्षान्तिः, तितिक्षा, इति २ पराभ्युदयसहनस्य ॥-परस्य विषये परकीयधने स्पृहा अभिध्या ॥ अक्षान्तिः. ईर्ष्या, इति २ पराभ्युदयासहनस्य ॥-गुणेष्वपि दोषारोपः मस्या ॥-वैरम्, विरोधः, विद्वेषः, इति ३ वैरस्य -
For Private and Personal Use Only