________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२
अमरकोषे
आख्या अभिधानं च नामधेयं च नाम च हूतिराकारणाह्वानं संहतिर्बहुभिः कृता विवादो व्यवहारः स्यादुपन्यासस्तु वाङ्मुखम् उपोद्घात उदाहारः शपनं शपथः पुमान् प्रश्नोऽनुयोगः पृच्छा च प्रतिवाक्योत्तरे समे मिथ्याभियोगोऽभ्याख्यानमथ मिथ्याभिशंसनम् अभिशापः प्रणादस्तु शब्दः स्यादनुरागजः यशः कीर्तिः समज्ञा च स्तवः स्तोत्रं स्तुतिर्नुतिः आम्रेडितं द्विस्त्रिरुक्तमुचैर्घुष्टं तु घोषणा काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः अवर्णाक्षेप निर्वादपरीवादापवादवत् उपकोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे
[ २. शब्दादिवर्गः
३२६
३२७
३२८
For Private and Personal Use Only
३२९
३३०
३३९
३३२
३३३
३३४
३३५
३३६
३३७
,
>
>
,
आह्वा, अभिधानम्, नामधेयम्, नाम, इति ६ नाम्नः ॥ - हूतिः, आकारणा आह्वानम् इति ३ आह्वानस्य ॥ - या बहुभिः कृता हूतिः, सा संहतिःविवादः, व्यवहारः, इति २ ऋणदानादिनिमित्त विविधवादस्य ॥ उपन्यासः, वाङ्मुखम् इति २ वचनारम्भस्य ॥ उपोद्घातः, उदाहारः, इति २ प्रकृतसिद्ध्यर्थचिन्तनस्य ॥ - शपनम् शपथः, इति २ शपथस्य ॥ - प्रश्नः, अनुयोगः, पृच्छा, इति ३ प्रश्नस्य ॥ प्रतिवाक्यम्, उत्तरम् इति २ प्रतिवचनस्य ॥ मिथ्याभियोगः, अभ्याख्यानम्, इति २ 'शतं मे धारयसि' इत्यासत्याक्षेपस्य ॥ - मिथ्याभिशंसनम्, अभिशाप:, इति २ सुरापानादिमिथ्यापापोद्भावनस्य ॥ -- अनुरागजो गुणानुरागोत्थः शब्दः प्रणाद इत्युच्यते ॥ - यशः, कीर्तिः, समज्ञा, इति ३ कीर्तेः ॥ - स्तवः स्तोत्रं, स्तुतिः, नुतिः, इति ४ स्तुतेः ॥ - द्विर्द्विवारं चित्रिवारं चोकमाम्रडितमुच्यते । यथा-सर्पः सर्प इति ॥ उच्चैर्घुष्टम्, घोषणा, इति २ उच्चैर्घोषस्य ॥ - शोकभीतिकामादिभिर्ध्वनेर्यो विकारः सा काकुः ॥ अवर्णः, आक्षेपः, निर्वादः, परीवादः, अपवादः, उपकोशः, जुगुप्सा, कुत्सा, निन्दा, गर्हणम्, इति 10 निन्दायाः ।
,
-