________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वनौषधिवर्गः ४] रत्नप्रभाव्याख्यासमेतः
'कर्चुरको द्राविडकः काल्पको वेधमुख्यकः ।
ओषध्यो जातिमात्रे स्युरजातौ सर्वमौषधम् ॥ १३५ ॥ ४शाकाख्यं पत्रपुष्पादि, "तण्डुलीयोऽल्पमारिषः । विशल्याऽग्निशिखानन्ताऽफलिनी शक्रपुष्पिका ॥ १३६ ॥ "स्यादृक्षगन्धा छगलाऽन्त्र्यावेगी वृद्धदारकः ।
जुङ्गो, 'ब्राह्मी तु मत्स्याक्षी वयस्था सोमवल्लरी ॥१३७॥ 'पटुपर्णो हैमवती स्वर्णक्षीरी हिमावती। ५°हयपुच्छी तु काम्बोजी माषपर्णी महासहा ॥ १३८॥ १"तुण्डिकेरी रक्तफला बिम्बिका पीलुपयेपि । १२बर्बरा कवरी तुझी खरपुष्पाञ्जगन्धिका ॥ १३९ ॥ १३एलापर्णी तु सुवहा रास्ता युक्तरसा च सा। १४चाङ्गेरी चुक्रिका दन्तशठाम्बष्ठाम्ललोणिका ॥ १४० ॥ १५सहस्रवेधी चुक्रोऽम्लवेतसः शतवेध्यपि । १६नमस्कारी गण्डकारी समङ्गा खदिरेत्यपि ॥ १४१ ॥
( १ ) क—रस्य चत्वारि नामानि । [ कचूर के ४ नाम । ] ( २ ) जातिमात्रे 'ओषध्यः' ( ३ ) अजातो तद्भिन्नेषु स्थलेषु सर्वम् ‘औषधम्' इति प्रयुज्यते । ( ४ ) पत्रपुष्यादि शाकनाम्नोपयुज्यते । तद्यथा
___मूलपत्रकरीराग्रफलकाण्डाधिरूढकम् ।
त्वकपुष्पकवचञ्चव शाकं दशविधं स्मृतम् ॥ इति ( ५ ) तण्डुलीयस्य नामद्वयम् [ चोलाई ( मरसा ) शाक के २ नाम ।। ( ६ ) शक्रपुष्पिकायाः पञ्च नामानि । [ इन्द्रपुष्पी के ५ नाम । ] (७) बृद्धदारकस्य पञ्च नामानि । [ बिधारा के ५ नाम । ] (८) ब्राह्मायावत्वारि नामानि । [ ब्राह्मी के ४ नाम । ] (९) स्वर्णक्षोर्याश्चत्वारि नामानि। [ स्वर्णक्षीरीसन्यानाशी के ४ नाम । ] ( १० ) माषपा नाम चतुष्टयम् । [ माषपर्णी के ४ नाम । ] ( ११ ) तुण्डिकर्याश्वत्वारि नामानि । [ तुण्डिकेरी के ४ नाम । ] (१२) खरपुण्यायाः पञ्च नामानि । [अजगन्धा से ५ नाम ।] ( १३ ) एलापाश्वत्वारि नामानि । [ एलापर्णो के ४ नाम । ] ( १४ ) अम्ललोणिकाया: पञ्च नामानि । [ चांगेरी के ५ नाम । ] ( १५ ) अम्लवेतसः पञ्च नामानि । [ चूक, अमलवेत के ५ नाम । ] ( १६ ) नमस्कार्याश्चत्वारि नामानि । [ हथ्था जोड़ी के ४ नाम । ]
६ अ०
For Private and Personal Use Only