________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६
अमरकोषः
[द्वितीयकाण्डे 'नीलो काला क्लीतकिका ग्रामीणा मधुणिका ॥९४ ॥ रञ्जनी श्रीफली तुत्था द्रोणी दोला च नीलिनी। अवल्गुजः सोमराजी सुवल्लिः सोमवल्लिका ॥९५ ॥ कालमेषी कृष्णफला वाकुची पूतिफल्यपि । कृष्णोपकुल्या वैदेही मागधी चपला कणा ॥९६ ॥ उषणा पिप्पली शौण्डी कोलाऽथ करिपिप्पली। कपिवल्ली कोलवल्ली श्रेयसो वशिरः पुमान् ॥ ९७ ॥ "चव्यं तु चविकं, 'काकचिञ्चा-गुञ्जे तु कृष्णला। "पलङ्कषा त्विक्षुगन्धा श्वदंष्ट्रा स्वादुकण्टकः ॥ ९८॥
गोकण्टको गोक्षुरको वनशृङ्गाट इत्यपि । ‘विश्वा विषा प्रतिविषाऽतिविषोपविषाऽरुणा ॥ ९९ ॥
शृङ्गी महौषधं चाथ क्षीरावी दुग्धिका समे। १ शतमूली बहुसुताऽभीरुरिन्दीवरी वरी ॥१०० ॥ ऋष्यप्रोक्ता-ऽभोरुपत्री-नारायण्यः शतावरी। अहेरुरथ पीतद्रु-कालीयक-हरिद्रवः ॥ १०१॥ दारू पचम्पचा दारुहरिद्रा पर्जनीत्यपि। १२वचोग्रगन्धा षड्ग्रन्था गोलामी शतपविका ॥ १०२ ॥ १३शुक्ला हैमवती, १४वैद्यमात-सिंह्यौ तु वाशिका ।
वृषोऽटरूषः सिंहास्यो वासको वाजिदन्तकः ॥१०३ ।। (१) नील्या एकादशनामानि । [ नीली के ११ नाम । ] ( २ ) सोमराज्या अष्टौ नामानि । [ बाकुची के १६ नाम । ] ( ३ ) पिप्पल्या दश नामानि । [पिप्पली, पीपल के १० नाम । ] ( ४ ) गजपिप्पल्याः पञ्च नामानि । [गजपीपल के ५ नाम । ] ( ५ ) चव्यस्य नामद्वयम् । [ चव्य के २ नाम । ] ( ६ ) गुञ्जाया नामत्रयम् । [ धुंघची, रत्ती, (रतङ्यव), के ३ नाम । ] ( ७ ) गोक्षुरकस्य सप्त नामानि । ] ( ८ ) अतिविषाया अष्टौ नामानि । [ अतीस के ८ नाम ।] (९) दुग्धिकायाः नामद्वयम् । [ दुद्धी के २ नाम । ] (१०) शतमूल्या दश नामानि । [ शतावरी के १० नाम । ] (११) दारुहरिद्रायाः सप्त नामानि । [ दारुहल्दी, ( किरमोड़ा ) के ७ नाम । ] ( १२ ) वचायाः पञ्च नामानि । [ बच, बँज के ५ नाम । ] ( १३ ) हैमवत्या एकं नाम । [ सफेद वच । ] ( १४ ) वासकस्याष्टौ नामानि। [ अडूसा, वासा, बैसिङी के ८ नाम । ]
For Private and Personal Use Only