________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४
अमरकोषः
[द्वितीयकाण्डे करवीरे, 'करीरे तु क्रकर-ग्रन्थिलावुभौ । उन्मत्तः कितवो धूर्तो धतूरः कनकाह्वयः॥ ७७ ॥ मातुलो मदनश्चाऽस्य फले मातुलपुत्रकः । ४फलपूरो बोजपूरो रुचको मातुलुङ्गके ॥ ७८ ॥ "समीरणो मरुबकः प्रस्थपुष्पः फणिज्जकः ।
जम्बीरोऽप्यथ पर्णासे कठिञ्जर-कुठेरकौ ॥ ७९ ॥ "सितेऽर्जकोऽत्र ‘पाठी तु चित्रको वह्निसञ्जकः । "अर्काह्व-वसुका-ऽऽस्फोत-गणरूप-विकीरणाः ॥८॥
मन्दारश्वाऽर्कपर्णोऽत्र ५°शुक्लेऽलर्क-प्रतापसौ। १'शिवमल्ली पाशुपत एकाष्ठीलो बुको वसुः ॥ ८१ ॥ १२वदा वृक्षादनी वृक्षरहा जीवन्तिकेत्यपि । १३वत्सादनी छिन्नरुहा गुडूची तन्त्रिकाऽमृता ॥ ८२ ॥
जीवन्तिका सोमवल्ली विशल्या मधुपर्ण्यपि। १४मूर्वा देवी मधुरमा मोरटा तेजनी नवा ॥ ८३ ॥
मधूलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि । (१) करीरस्य नामत्रयम् । [ करीर, करील, कर के ३ नाम । ] ( २ ) धत्तूरस्य सप्त नामानि । [ धतूरा ( धत्तूर ) के ७ नाम । ] ( ३ ) धत्तूरफलस्यैकं नाम । [ धतूरे का फल । ] ( ४ ) मातुलुङ्गस्य चत्वारि नामानि। [बिजौरा नीबू के ४ नाम । ] अपरे प्रथमं नामद्वयं बीजपूरस्य शेष नामद्वयं मातुलुङ्गस्येत्याहुः । इदमेव नो रोचते । कूर्माचलप्रदेशे निम्बूकस्य समुपलभ्यन्ते बहवोभेदाः, तेषु मातुलुङ्गकस्य नामसादृश्यं 'मतकाकड़ी'ति फलमिति ज्ञेयम् । (५) मरुबकस्य पञ्च नामामि । [ जम्बोरी नीबू ( मरुवा ) के ५ नाम । ] ( ६ ) पर्णासस्य नामत्रयम् । [पर्णास ।] ( ७ ) श्वेतपर्णासस्यैकं नाम । [सफेद पर्णास i] ( ८) चित्रकस्य नामत्रयम् । [चीता के ३ नाम । ] ( ९ ) अर्कस्य सप्त नामानि। [ मदार के ७ नाम । ] ( १० ) शुक्लवर्णवतोऽर्कस्य नामद्वयम् । [ सफेद आक के २ नाम । ] ( ११ ) शिवमल्ल्याः पञ्च नामानि । [ गमा के ५ नाम । ] ( १२ ) वृक्षादन्याश्चत्वारि नामानि । [वन्दा के ४ नाम ।] ( १३ ) गुडूच्या नव नामानि । [ गुरुच, गिलोय, गुर्ज के ९ नाम । ] ( १४ ) दश मूर्वाया नामानि । तत्र स्रवा, खुवेति च पाठभेदः । मुर्वाया विषये वैद्यानां नास्ति ऐकमत्यम् । [ मूर्वा के १० नाम । ]
For Private and Personal Use Only