________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
[द्वितीयकाण्डे
१पिच्छा तु शाल्मलीवेष्टे, रोचनः कूटशाल्मलिः। चिरबिल्वो नक्तमालः करजश्च करञ्जके ॥ ४७ ॥ प्रकीर्यः पूतिकरजः पूतिकः कलिमारकः । "करञ्जभेदाः षड्ग्रन्थो मर्कटयङ्गारवल्लरी ॥४८॥
रोही रोहितकः प्लोहशत्रुर्दाडिमपुष्पकः । गायत्री बालतनयः खदिरो दन्तधावनः॥ ४९ ॥ 'अरिमेदो विट्खदिरे, 'कदरः खदिरे सिते। १°सोमवल्कोऽप्यथ व्यानपुच्छ-गन्धर्वहस्तकौ ॥ ५० ॥
एरण्ड उरुबूकश्च रुचकश्चित्रकश्च सः।
चञ्चुः पञ्चाङ्गलो मण्ड-वर्धमान-व्यडम्बकाः॥५१॥ ११अल्पा शमी शमीरःस्याच्छमी २ सक्तुफला शिवा । " 3पिण्डीतको मरुबकः श्वसनः करहाटकः ।। ५२॥
शल्यश्व मदने, १४शक्रपादपः पारिभद्रकः। भद्रदारु द्रकिलिमं पीतदारु च दारु च ॥५३॥
पूतिकाष्ठं च सप्त स्युर्देवदारुण्यथ द्वयोः। (१) शाल्मलीवेष्टस्य नामद्वयम् । [ सेमल की गोंद के २ नाम । ] (२) कूटशाल्मले मद्वयम् । [ कूटशाल्मलि के २ नाम । ] ( ३ ) करञ्जकस्य नामचतुष्टयम् । [ करजुआ के ४ नाम । ] ( ४ ) पूतिकरञ्जस्य चत्वारि नामानि । [ काँटेदार करज के ४ नाम । ] ( ५ ) करञ्जभेदानामेककं नाम। [ करञ्ज के भेदों के नाम । ] ( ६ ) रोहितकवृक्षस्य चत्वारि नामानि । [ रोहिडावृक्ष के ४ नाम । ] (७) चत्वारि खादिरस्य नामानि । [ खैर के ४ नाम । ] विशेषधन्वन्तरिनिघण्टु में खादिर का पर्याय बाल.पत्र दिया है। परन्तु अमरसिंह ने बालपत्र को बालपुत्र समझकर इसके लिये बालतनय शब्द का प्रयोग किया है । यह अमरसिंह की भूल है। (८) विट्खदिरस्य' नामद्वयम् । [ विट्खदिर के २ नाम । (९) श्वेतखदिरस्य नामद्वयम् । [ सफेद खैर के २ नाम । ] (१०) एरण्डस्यकादशनामानि । [ एरण्ड ( रेडी, रेड ) के ११ नाम । ] ( ११) अल्पशम्या नामकम् । [ छोंकरा । ] ( १२ ) शम्यास्त्रीणि नामानि । [शमो के ३ नाम । ] (१३ ) मदनवृक्षस्य षड् नामानि [ मैनफल वृक्ष के ६ नाम । ] ( १४ ) देवदारुवृक्षस्य अष्टौ नामानि । [ देवदारुवृक्ष के ८ नाम । ]
For Private and Personal Use Only