________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
[द्वितीयकाएं 'आश्वत्थ-वैणव-प्लाक्ष-नयग्रोधैङ्गदं फले ॥१८॥ बार्हतञ्च, 'फले जम्ब्वा जम्बूः स्त्री जम्बु जाम्बवम् । पुष्पे जातिप्रभृतयः स्वलिङ्गा, वोहयः फले ॥ १९ ॥ "विदार्याधास्तु मूलेऽपि, पुष्पे क्लीबेऽपि पाटला। "बोधिद्रुमश्चलदलः पिप्पलः कुञ्जराऽशनः ॥ २० ॥ अश्वत्थेऽथ 'कपित्थे स्युर्दधित्थ-ग्राहि-मन्मथाः। तस्मिन् दधिफलः पुष्पफल-दन्तशठावपि ॥२१॥ 'उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः । १°कोविदारे चमरिकः कुद्दालो युगपत्रकः ॥ २२ ॥ ११सप्तपर्णो विशालत्वक् शारदो विषमच्छदः । १२आरग्वधे राजवृक्ष-शम्याक-चतुरङ्गलाः ॥ २३ ॥
आरेवत-व्याधिघात-कृतमाल-सुवर्णकाः १३स्युर्जम्बीरे दन्तशठ-जम्भ-जम्भीर-जम्भलाः ॥ २४ ॥
-
( १ ) अश्वत्थादीनां फलस्यैकं नाम । यथा-अश्वत्थस्य = आश्वत्थं, वेण्याः= वैणवं, प्लक्षस्य = प्लाक्षं, न्यग्रोधस्य = नयग्रोध, बृहत्या: = बार्हतम् (२) जम्बूफलस्य नाम त्रयम् । [ जामुन के ३ नाम । ] ( ३ ) जातिप्रभृतयः पुष्पे पुष्पविषये स्वलिङ्गा भवन्ति । यथा-जात्याः पुष्पं जातिः । मल्लिकायाः पुष्पं मल्लिका इत्यादि । ( ४ ) एवम्प्रकारेण ब्रीाः फले वाच्ये सति स्वलिङ्गा भवन्ति । तद् यथा—यवानां फलानि यवाः । माषानां फलानि माषाः । मुद्गानां फलानि मुद्गाः । (५) विदार्याद्यास्तु मूले, पुष्षे, फलेऽपि च स्वलिङ्गा भवन्ति । यथा-विदार्याः पुष्पं, फलं, मूलं च विदारी। (६) पाटलाशब्द: पुष्पे नपुंसकलिङ्गे स्त्रीलिङ्गे च । क्वचित् पूर्वोक्तवत् पुंसि च दृश्यते । (७) पिप्पलवृक्षस्य पञ्च नामानि । [ पीपल के ५ नाम । ] (८) कपित्थवृक्षस्य सप्त नामानि । [ कैथ के ७ नाम । ] ( ९) उदुम्बरस्य चत्वारि नामानि । [ गूलर के ४ नाम ।। (१०) कोविदारस्य नामचतुष्टयम् । [ कचनार के ४ नाम ।। (११) सप्तपर्णस्य चत्वारि नामानि । [छतिवन के ४ नाम । ] ( १२) आरग्वधस्प अष्टौ नामानि । [ अमलतास के ८ नाम । ] ( १३ ) जम्बीरवृक्षस्य पञ्च नामानि । [ जम्बीरीनीबूके ५ नाम । ]
For Private and Personal Use Only