________________
Shri Mahavir Jain Aradhana Kendra
नाट्यवर्गः ७ ]
www.kobatirth.org
रत्नप्रभाव्याख्यासमेतः
Acharya Shri Kailassagarsuri Gyanmandir
'शुचौ तु चरिते शीलमुन्मादश्चित्तविभ्रमः ॥ २६ ॥ प्रेमा ना प्रियता हार्द प्रेम स्नेहोऽथ दोहदम् । इच्छाऽऽकाङ्क्षास्पृहेहातृड्वाञ्छालिप्सामनोरथः ॥ २७ ॥ कामोऽभिलाषस्तर्षश्च " सोऽत्यथं लालसा द्वयो | 'उपाधिर्ना धर्मचिन्ता, "पुंस्याधिर्मानसी व्यथा ॥ २८ ॥ 'स्याच्चिन्ता स्मृतिराध्यानमुत्कण्ठोत्कलिके समे । १. उत्साहोऽध्यवसायः स्यात्स ११ वीर्यमतिशक्तिभाक् ॥ २९ ॥ १२ कपटोsस्त्री व्याजदम्भोपधयश्छद्मकैतवे ।
0
कुसृतिनिष्कृतिः शाठ्यं, "प्रमादोऽनवधानता ॥ ३० ॥ १४ कौतूहलं कौतुकञ्च कुतुकञ्च कुतूहलम् ।
१" स्त्रीणां विलास - बिब्बोक - विभ्रमा ललितन्तथा ॥ ३१ ॥ हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः । "द्रवकेलिपरीहासाः क्रोडा लोला च नर्म च ॥ ३२ ॥ १७ व्याजोऽपदेशो लक्ष्यञ्च क्रीडा खेला च कूर्दनम् ।
។
४१
( १ ) पवित्रचरितस्यैकम् । [ शोल । ] ( २ ) उन्मादस्यैकम् | [ पागलपन का नाम । ] ( ३ ) पश्च नामानि स्नेहस्य । [ प्रेम के ५ नाम । ] ( ४ ) इच्छाया द्वादश नामानि । तत्र दोहदं गर्भिण्या इच्छाया विषये सुप्रसिद्धम् । [ इच्छा के १२ नाम । गर्भिणी की इच्छा को दोहद कहते हैं । ] ( ५ ) अतिप्रीतेरेकं नाम । [ अत्यन्त प्रेम का नाम । ] ( ६ ) धर्मचिन्ताया नामद्वयम् । [ धर्मचिन्ता के २ नाम । ] ( ७ ) मानसिकव्यथाया एकं नाम । [ आधि ( मानसिक कष्ट ) । ] ( ८ ) स्मरणस्य त्रीणि नामानि । [ स्मरण के ३ नाम । ] ( ९ ) उत्कण्ठाया नामद्वयम् । [ उत्कण्ठा के २ नाम । ] ( १० ) उत्साहस्य नामद्वयम् । [ उत्साह के २ नाम । ] ( ११ ) अत्यन्तशक्तियुक्तस्यैकम् | [ अत्यधिक शक्तियुक्त का नाम । ] ( १२ ) कपटस्य नव नामानि । [ कपट के ९ नाम । ] ( १३ ) द्वे प्रमादस्य नामनी । [ प्रमाद के २ नाम ।] (१४) कौतुहलस्य चत्वारि नामानि । [ कुतूहल के ४ नाम । ] ( १५ ) शृङ्गाराद् रत्यादेः, भावात् मानसिक विकाराच्च समुत्पन्नाः स्त्रीणां क्रियाः, विलासादिकाः षड् हावाभिधा भवन्ति । [ हाव के ६ नाम । ] ( १६ ) क्रीडायाः षड् नामानि । [ खेल तथा परिहास के ६ नाम | ] ( १७ ) व्याजस्य त्रोणि नामानि । [ छल कपट, बहाना के ३ नाम | ] ( १८ ) नामत्रयं क्रीडायाः । [ गेंद आदि खलों के ३ नाम । ]
For Private and Personal Use Only