________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वगः ६]
शब्दादिवर्गः ६ ] रत्नप्रभाव्याख्यासमेतः
'वार्ता प्रवृत्तिवृत्तान्त उदन्तः स्यादथाह्वयः॥७॥ आख्याह्वे अभिधानञ्च नामधेयं च नाम च । हूतिराकारणाऽह्वानं संहूतिर्बहुभि कृता॥ ८॥ ५विवादो व्यवहारः स्यादुपन्यासस्तु वाङ्मुखम् । "उपोद्घात उदाहारः, 'शपनं शपथः पुमान् ॥९॥ 'प्रश्नोऽनुयोगः पृच्छा च, १ प्रतिवाक्योत्तरे समे। ११मिथ्याभियोगोऽभ्याख्यानमथ मिथ्याभिशंसनम् ॥१०॥
अभिशापः, १३प्रणादस्तु शब्दः स्यादनुरागजः । १४यशः कोतिः समज्ञा च, १५स्तवः स्तोत्रं स्तुतिर्नुतिः॥११॥ "आम्रेडितं द्विस्त्रिरुक्तमुँच्चैघुष्टन्तु घोषणा। "काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः॥१२॥ १९अवर्णा-ऽऽक्षेप-निर्वाद-परीवादा-ऽपवादवत् ।
उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे ॥ १३ ॥ (१) समाचारस्य चत्वारि नामानि । [ समाचार के ४ नाम । ] (२) नाम्नः षड़ नामानि । [ नाम ( संज्ञा ) के ६ नाम । ] ( ३ ) आह्वानस्य त्रीणि नामानि । [ बुलाने के ३ नाम । ] ( ४ ) अनेकपुरुषकृतस्य आह्वानस्यकम् । [अनेक व्यक्तियों द्वारा एक साथ बुलाने का नाम । ] (५) विवादस्य द्वे नामनी। [ मुकद्दमा के २ नाम । ] ( ६ ) वार्ताप्रारम्भणस्य नाम । [अपनी बात कहना।] (७) वक्ष्यमाणार्थवर्णनस्य । अपरे दृष्टान्तादेरिति स्वीकुर्वते । [ दृष्टान्त अथवा उपोद्घात के २ नाम । ] ( ८) शपथस्य द्वे नामनी। [ शपथ के २ नाम ।] (९) प्रश्नस्य नामत्रस्यम् । [ पूछना के ३ नाम । ] ( १० ) उत्तरस्य नामद्वयम् । [ उत्तर ( जबाब ) के २ नाम । ] (११ ) मिथ्याभियोगस्य नामद्वयम् । [ झूठा मुकद्दमा के २ नाम । ] ( १२ ) मिथ्यापवादस्य द्वे नामनी । [झूठा कलंक के २ नाम । ] ( १३ ) अनुरागशब्दस्यकं नाम । [ पुचकारना । ] (१४) कीर्ते: श्रोणि नामानि । [ यश के ३ नाम । ] ( १५ ) स्तुतेश्चत्वारि नामानि । [ स्तुति के ४ नाम । ] ( १६ ) द्विरुक्तेर्नामद्वयम् । [ दो बार कहने का नाम । ] (१७) घोषणायाः नामद्वयम् । [ घोषणा के २ नाम । ] ( १८ ) शोकभीत्यादिभिः ध्वनेः यः विकारस्तस्यैकं नाम । [ दुःख भय आदि के कारण उत्पन्न ध्वनि का नाम 'काकु' । ] ( १९ ) निन्दाया दश नामानि । [ निन्दा के १० नाम ।].
३ अ०
For Private and Personal Use Only