________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७८
अनेकार्थध्वनिमञ्जरीकोषः
शुक्लो वर्णोऽर्जुनो नाम पाण्डवोऽप्यर्जुनो मतः । अर्जुनस्तृणजातिस्यादर्जुनं ककुभो द्रुमः ॥ ३० ॥ बलिस्त्री मध्यभागोमी बलिश्चर्मजराकृतिः । बलिः पूजोपहारः स्याद् बलिर्दानवपुङ्गवः ॥ ३१ ॥ बलिश्चामरदण्डे च जरया श्लथचर्मणि । ग्रीवायामुदरे दैत्ये करपूजोपहारयोः ॥ ३२ ॥ वणस्यावरणं पट्टः पट्टोभूर्जाहिताक्षरः । वीरदीक्षापटः पट्टः पट्टः स्यादधिवासनम् ॥ ३३ ॥ रन्ध्र वस्त्रे विना मध्ये व्यवधानेऽन्तरात्मनि । बहिोंगे च काशे च विशेषेऽवसरेऽन्तरः ॥ ३४ ॥ अरिष्टं ग्रहमित्युक्तमरिष्टो बृषभासुरः । काकनिम्बावरिष्टौ चारिष्टं क्षेममिहेरितम् ॥ ३५ ॥ मण्डलं भूमिभागश्च मण्डलः सरमासुतः । मण्डलं वर्तुलं प्रोक्तं सङ्घातो मण्डलं स्मृतम् ॥ ३६ ॥ इन्द्रियं कम्बलं प्रोक्तं कम्बलं रोमजः पटः । कम्बलन्तु गवां सास्ना कम्बलं कमलं विदुः ॥ ३७ ।। कुन्तलो देशपर्यायः कुन्तलः केशवाचकः । कुन्तलः सूत्रधारश्च कुन्तहस्तश्च कुन्तलः ॥ ३८ ॥ मणिलिङ्गाग्रिमो भागो मणिः प्रोक्तो भगध्वजः । मणिः कूपमुखे ज्ञेयः पद्मरागादिको मणिः ।। ३९ ॥ तन्त्रं शास्त्रं कुलं तन्त्रं तन्त्रं सिद्धौषधिक्रिया । तन्त्रं सुखं बलं तन्त्रं तन्त्रं पावनसाधनम् ॥ ४० ॥ नेत्रं वस्त्रं विशेषस्यान्नेत्रं चक्षुरुदाहृतम् । परिवर्तगुणो नेत्रं नेत्रः कस्तूरिकामृगः ॥ ४१ ॥ वातादिप्रकृतिर्धातुर्धातुहेरसादिकः क्रियाभावः स्मृतो धातुर्धातुः शैलोपलोद्भवः ॥ ४२ ॥ सुधा प्रासादभागद्रव्यं सुधा विद्युत्सुधामृतम् । सुधैव भोजनं ज्ञेयं सुधा धात्री सुधा स्नुही ।। ४३ ।। काण्डो बाणस्तुलाकाण्डः सङ्घातः काण्ड उच्यते । काण्डः कालो बलं काण्डं काण्डं मूलं तरोरपि ॥ ४४ ॥
For Private and Personal Use Only