SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्विरूपकोषः २७५ दम्पती इव शब्देन संहतो तेषु पक्षकः । प्रग्राहः प्रग्रहो दृष्टः पारिप्लव-परिप्लवौ ॥ ६१ ॥ उच्छ्राय उच्छ्यः प्रोक्तो धारणं धरणं तथा। त्रिखट्वी च त्रिखट्वं च स्यादुलूखलमुदूखलम् ॥ ६२॥ क्षमा भूमिः क्षमा तुल्या तूली तुला मतं सताम् । मसुरोऽपि मसूरस्तु सरुः सद्योऽपि दृश्यते ॥ ६३ ॥ कापुरुषः कुपुरुषो वाचिका वाचकः क्रिया। विहङ्गमेति कथिता तथा ख्याता विहङ्गिका ॥ ६४ ॥ आपः शब्दो सकारान्तो दृश्यते शब्दशासने । चारभटश्चारु भटः खाल्विटो खल्विटो मतः॥६५॥ खल्लीटं च तथा दृष्टं हाजिरुक्ता च हाजिकम् । कोटितण्डुल शब्दौ च दृष्टौ पुंक्लीबयोः पुनः॥६६॥ कतम कतरी प्रोक्तौ दृष्टी भिक्षुक-भिक्षको । कर्कटी कर्कुटी नान्ता इकारान्ता च केचन ॥ ६७॥ लाबूरलाबूरिर्वारुरुवारश्च मतं सताम् । आननश्चाननं चैव आमेषी चाम्रपेषिका ॥ ६८ ॥ शालिश्चैव तथा शाली कलम्बुश्च कलम्बिका। नीलिका चैव नीली च कर्करुः पुंसि च स्त्रियाम् ॥ ६९ ॥ पोतिका पोतका ख्याता स्मृतौ वास्तूकवास्तुको। भृङ्गराजौ भृङ्गरजः समौ दाडिमदाणिमौ ॥ ७० ॥ गुत्सको गुच्छको वापि तथा चोत्सुकचोतको । शाटिः शाटी च विख्याता मटो मयट एव च ॥ ७१ ॥ समौ दात्यूह-दात्योही पटवासः पटवसः । अवसत्थ आवसत्य तद् रङ्गाद रङ्गको समौ ॥ ७२ ॥ शूकपिटः शूकपटः खटकिक्कः खटकिक्ककम् । ख्याती पाटपर्णाटौ प्रघाणः प्रघणेऽपि च ॥ ७३ ॥ भ्रकुटि-भ्रकुटौ प्रोक्तो कलिः स्त्रीपुंसमथिता। क्रौञ्चापि च पुनः क्रौञ्चस्तथा च प्रतिपद्यते ॥ ७४ ॥ हलन्तो गीयते कैश्चिदजन्तोऽयं . च गीयते । दुर्लभो प्रथितो लोके बीजधातुप्रमाणतः ॥ ७५॥ इति श्रीपुरुषोत्तमदेवविरचितो द्विरूपकोषः समाप्तः । For Private and Personal Use Only
SR No.020028
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorBramhanand Tripathi
PublisherChaukhamba Surbharti Prakashan
Publication Year1982
Total Pages304
LanguageHindi
ClassificationDictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy