________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीपुरुषोत्तमदेवप्रणीतः
एकाक्षर-कोषः अकारो वासुदेवः स्यादाकारस्तु पितामहः । पूजायामपि माङ्गल्ये आकारः परिकीत्तितः ॥१॥ इकार उच्यते कामो लक्ष्मोरीकार उच्यते । उकारः शङ्करः प्रोक्त ऊकारश्चापि लक्षणे ॥२॥ रक्षणे चापि ऊकार ऊकारो ब्रह्मणि स्मृतः। ऋकारो देवमाता स्यादृकारो दनुजप्रसूः ॥ ३॥ लकारो देवजातीनां माता सद्धिः प्रकोत्तिता। लकारः स्मर्यते पूर्वैर्जननी शब्दकोविदः॥४॥ एकार उच्यते विष्णुरकारः स्यान्महेश्वरः । ओकारस्तु भवेद् ब्रह्मा औकारोऽनन्त उच्यते ॥५॥ अं स्याच्च परमं ब्रह्म अः स्याच्चैव महेश्वरः। कः प्रजापतिरुद्दिष्टो कोऽर्क-वायवनलेषु च ॥ ६ ॥ कश्चाऽत्मनि मयूरे च कः प्रकाश उदाहृतः। के शिरो जलमाख्यातं कं सुखं च प्रोत्तितम् ॥ ७ ॥ पृथिव्यां कुः समाख्यातः कुः शब्देऽपि प्रकोत्तितः । खमिन्द्रिये खमाकाशे खः स्वर्गेऽपि प्रकीर्तितः ॥८॥ सामान्ये च तथा शून्ये खशब्दः परिकीत्तितः। गो गणेशः समुद्दिष्टो गन्धर्वो गः प्रकीत्तितः ॥९॥ गं गीतं गा च गाथा स्याद् गौश्च धेनुः सरस्वती। घा घण्टाऽथ समाख्याता घो घनश्च प्रकोत्तितः ॥१०॥ घण्टीशे हनने धर्म घुर्घोणा घूर्ध्वनावपि । ङकारो भैरवः ख्यातो कुकारो विषयस्पृहा ॥ ११ ॥ चश्चन्द्रमाः समाख्यातो भास्करे तस्करे मतः । निर्मलं छं समाख्यातं तरले छः प्रकीर्तितः॥१२॥ छेदके छः समाख्यातो विद्वद्भिः शब्दकोविदः । जकारो गायने प्रोक्तो जयने जः प्रकीर्तितः ॥१३॥
For Private and Personal Use Only