________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
[प्रथमकाण्डे 'सनत्कुमारो वैधात्रः, स्ववैद्यावश्विनीसुतौ । नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ ॥५१॥ स्त्रियां बहुष्वप्सरसः स्वर्वेश्या उर्वशीमुखाः। *हाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम् ॥५२॥ 'अग्निर्वैश्वानरो वह्निोतिहोत्रो धनञ्जयः । कृपीटयोनिज्वलनो जातवेदास्तनूनपात् ॥ ५३॥ बहिःशुष्मा कृष्णवर्मा शोचिष्केश उषर्बुधः । आश्रयाशो बृहद्भानुः कृशानुः पावकोऽनलः ॥ ५४॥ रोहिताश्वो वायुसखः शिखावानाशुशुक्षणिः। हिरण्यरेता हुतभुग दहनो हव्यवाहनः ॥ ५५ ॥ सप्ताचिर्दमुनाः शुक्रश्चित्रभानुविभावसुः। शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः ॥५६॥ "वह्नयोलिकीलार्वाचतिः शिखा स्त्रियाम् । 'त्रिषु स्फुलिङ्गोऽग्निकणः, 'सन्तापः संज्वरः समौ ॥ ५७ ॥
(१) ब्रह्मणः पुत्रस्य द्वे नामनी। [ ब्रह्मा के पुत्र के २ नाम । ] (२) अश्विनीकुमारयोः षड् नामानि द्विवचनान्तानि । [ अश्विनी कुमारों के ६ नाम ।] (३) उर्वशीप्रमुखानां द्वे नामनी। तत्र सान्तो नित्यबहुवचनान्तश्च अप्सरश्शब्दः । [ अप्सराओं के २ नाम । ] ( ४ ) देवगायकानाम् एकैकं नाम । यथा--हाहाहूहू-तुम्बरु-वृषणश्व-विश्वावसु-चित्ररथादयः । भोजस्तु-हाहा-हुहु शब्दयोरव्ययत्वमुभयह्रस्वत्वञ्चाह । [ हाहा हूह आदि गन्धों के नाम । ] (५) अग्नेश्वतुस्त्रिशन्नामानि [ अग्नि के ३४ नाम । ] पारस्करगृह्यसूत्रे-वह्निजिह्वानां सप्तनामानि, यथा
'काली कराली च मनोजवा च सुलोहिता चैव सुधूम्रवर्णा ।
स्फुलिङ्गिनी चैव शुचिस्मिता च लोलायमाना इति सप्तजिह्वाः ॥" ( ६ ) वडवानलस्य त्रीणि नामानि । [ समुद्र की अग्नि के ३ नाम । ] (७) वह्निज्वालायाः पञ्च नामानि । अचिः शब्द इकारान्तः सकारान्तोऽपि । [अग्निकी लौ के ५ नाम । ] (८) अग्निकणस्य द्वे नामनी। स्त्रीलिङ्गे स्फुलिङ्गेति टाबन्तः । [चिनगारी के २ नाम । ] (९) द्वे सन्तापस्य नामनी। [सन्तान के २ नाम । ]
For Private and Personal Use Only