________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्रीः॥ श्रीमद् अमरसिंहविरचितं नामलिङ्गानुशासनम्
अमरकोषः रत्नप्रभाऽऽख्यव्याख्यया संवलितः
अथ प्रथमकाण्डम्
मङ्गलाचरणम् यस्य ज्ञानदयासिन्धोरगाधस्थानघा गुणाः । सेव्यतामक्षयो धीराः स श्रिये चामृताय च ॥ १॥
व्याख्याकर्तुः-मङ्गलाचरणम् अकारादिहकारान्त शब्दविग्रहबन्धुरम् ।। फलये तमहं शश्वत् स्मेरास्यं गणनायकम् ॥ १ ॥ शब्दागममहासिन्धु निस्तारणपटीयसः ।
गुरून् नत्वाऽक्षरब्रह्म-वरिवस्यां तनोम्यहम् ॥ २ ॥ व्याख्या-यद्यपि श्रीमदमरसिंहो बुद्ध मतानुयायीति प्रथमेनानेन पद्येन विदितं भवति तथाप्येतस्य पद्यस्य शिवसम्बन्धिव्याख्यानं न. सुतरां रोचते। अतस्तदेव प्रागुल्लिख्य पश्चादभुष्य मतानुयायि व्याख्यानं करिष्ये । ___ यस्येति-भो धीराः ! सुधियः !, अक्षय: विनाशरहितः, सः शङ्करः, सेव्यताम् भक्तैरिति शेषः । यस्य लोकोत्तरशक्तिवतः, अगाधस्य अनन्तम हिमाशालिनः, ज्ञानदयासिन्धोः ज्ञानदययोः समुद्रस्वरूपस्य, किं वा सर्वज्ञाननिधेः, आशतोषस्य च अनघाः कल्मषरहिता अतएव पवित्राव, क्षमाशान्तिप्रमुखाः, गुणा
For Private and Personal Use Only