________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११६
अमरकोषः
[द्वितीयकाण्डे विप्रश्च ब्राह्मणोऽसौ, 'षट्कर्मा यागादिभिर्युतः॥४॥ विद्वान् विपश्चिद्दोषज्ञः सन् सुधीः कोविदो बुधः । धीरो मनीषी ज्ञः प्राज्ञः सङ्ख्यावान् पण्डितः कविः ॥ ५॥ धीमान् सूरिः कृती कृष्टिलब्धवर्णो विचक्षणः। दूरदर्शी दीर्घदर्शी, 'श्रोत्रियच्छान्दसौ समौ ॥६॥ [ मीमांसको जैमिनीये, वेदान्ती ब्रह्मवादिनि । वैशेषिके स्यादौलूक्यः, सौगतः शून्यवादिनि ॥ नैयायिकस्त्वाक्षपादः, स्यात् स्याद्वादिक आर्हतः। चार्वाकलौकायतिकाः, सत्कार्ये साङ्ख्यकापिलौ] उपाध्यायोऽध्यापकोऽथ स पनिषेकादिकृद गुरुः । 'मन्त्रव्याख्याकृदाचार्य, आदेष्टा त्वध्वरे व्रती ॥७॥
यष्टा च यजमानश्च, स 'सोमवति दीक्षितः। ( १ ) यागादिषट्कर्मकुशलस्य ब्राह्मणस्य नाम । [ षट्कर्मा ब्राह्मण । ] तद्यथा--
'इज्याध्ययनदानानि याजनाऽध्यापने तथा।।
प्रतिग्रहश्च तैर्युक्तः षट्कर्मा विप्र उच्यते' ॥ इति । ( २ ) पण्डितस्य द्वाविंशति नामानि । [ पण्डित के २२ नाम । ] ( ३ ) सकलशाखाऽध्यायिनो नामद्वयम् । [ वेदकी सभी शाखाओं के अध्ययन करने वाले के २ नाम । ] जैमिनीये मीमांसकः । [मीमांसक । ब्रह्मवादिनि वेदान्ती । [वेदान्ती। वैशेषिके औलूक्यः । [ वैशेषिक । ] शून्यवादिनि सौगतः । [ बौद्ध । ] आक्षपादो नैयायिकः । [नैयायिक ।] स्याद्वादिक आर्हतः । [जैन ।] लौकायतिकः चार्वाकः । [चार्वाक । कापिलः । [साङ्ख्य ।] ( ४ ) उपाध्यायस्य नामद्वयम् । तत्र मनुराह
___ 'एकदेशन्तु वेदस्य वेदाङ्गान्यपि वा पुनः'।।
योऽध्यापयति वृत्यर्थमुपाध्यायः स उच्यते' ॥ इति । [ उपाध्याय के २ नाम । ] ( ५ ) संस्कारादिकर्तुर्गुरोर्नाम । [ गुरु।] ( ६ ) आचार्यस्य नामद्वयम् । [ आचार्य के २ नाम । ] यथाह मनु:
'उपनीय तु यः शिष्यं वेदमध्यापयेद् द्विजः ।
साङ्ग वा सरहस्य वा तमाचार्य प्रचक्षते' ॥ इति । (७) यज्ञकर्तुस्त्रीणि नामानि । [ यजमान के ३ नाम । ] (८) सोमवति यज्ञे दीक्षितस्यकं नाम । [ सोमयाजी।]
For Private and Personal Use Only