________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्ट.
भाषाहारशरीराख्यप्राणापानादिमूर्तिमत् । यत्किञ्चिदस्ति तत्सर्व स्थूलं सूक्ष्मं च पुद्गलम् ॥ ९२ ॥
[आस्रवः] शरीरवाङ्मनःकर्मयोग एवास्रवो मतः । शुभाशुभविकल्पोऽसौ पुण्यपापानुषङ्गतः ॥ ९४ ॥
[बन्धः ] सकषायतयादत्ते जीवोऽसंख्यप्रदेशगान् । पुद्गलान् कर्मणो योग्यान् बन्धः स इह कथ्यते ॥ १०६ ॥ मिथ्यादृक् च प्रमादाश्च योगाश्चाविरतिस्तथा । कषायाश्च स्मृता जन्तोः पञ्च बन्धस्य हेतवः ॥ १०७ ॥ प्रकृतिस्थित्यनुभागप्रदेशानां विभेदतः । चतुर्विधः प्रणीतोऽसौ जैनागमविचक्षणैः ॥ १०८ ॥ अष्टौ प्रकृतयः प्रोक्ता ज्ञानावृतिहगावृती । वेद्यं च मोहनीयायुर्नामगोत्रान्तराययुक् ॥ १०९ ॥
[संवरः] आस्रवद्वाररोधेन शुभाशुभविशेषतः । कर्म संवियते येन संवरः स निगद्यते ॥ ११८ ॥ आस्रवः संसृतेर्मूलं मोक्षमूलं तु संवरः ॥ १२० ॥
[निर्जरा] दुर्जरं निर्जरत्यात्मा यया कर्म शुभाशुभम् । निर्जरा सा द्विधा शेया सकामाकामभेदतः ॥ १२२ ॥ सा सकामा स्मृता जैनैर्या व्रतोपक्रमैः कृता । अकामा स्वविपाकेन यथा श्वभ्रादिवासिनाम् ॥ १२३ ॥
[मोक्षः] अभावाद्वन्धहेतूनां निर्जरायाश्च यो भवेत् । निःशेषकर्मनिमोक्षः स मोक्षः कथ्यते जिनैः ॥ १६० ॥
इति धर्मशर्माभ्युदयकाव्ये एकविंशे सगें सप्तक्षेत्री:-जिनबिंब, जिनमंदिर, पुस्तक, साधु, साध्वी, श्रावक, श्राविका, साधु आदि चार क्षेत्रांना संघ अशी संज्ञा आहे.
For Private And Personal Use Only