________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
""
उपोद्घातः ।
विनिहतदोषः सततं भव्यवजवारिजातकृतबोधः ।
• गोभिः सकलपदार्थप्रकटयिता जयति वीररविः ॥ "
Acharya Shri Kailassagarsuri Gyanmandir
अध्यात्मकल्पद्रुमाभिधमिदं ग्रन्थरत्न मार्हतदर्शनप्रमुख तत्वप्रतिपादकत्वात् प्रसादगुणशालित्वाच्च शतार्थिकश्रीसोमप्रभसूरीणां सूक्तिमुक्तावल्याः शोभामनुहरति । उपदेशरत्नाकरनामा बृहत्कायोऽन्योऽपि ग्रन्थो मागधीभाषायां व्यरच्येतत्कर्त्रा ।
ग्रन्थस्यास्य निर्माता तपागच्छनायकः श्रीमुनि पुन्दरसूरिः श्रीविक्रमाब्दे १४३६ स्वज=मना महीमण्डलं मण्डयामासेति श्रूयते । षडर्षदेशीय एव पूर्वभवाचरितशुभकर्म संस्कारपरिणामादुत्पन्नवैराग्यः श्रमणदीक्षामग्रहीत् । देहावसानं च १५०३ वत्सरे जातम् ।
अध्यात्म कल्पद्रुमस्योपरि श्री रत्न चन्द्रगणिविद्यासागरगणिश्रीधनविजयगणिप्रभृतीनां टीकाः सन्तीति ज्ञायते परन्तु तासां मध्यात् श्रीधनविजयगणिविरचिता अधिरोहणी एव मया प्राप्ता । अस्ति च " अध्यात्म कल्पद्रुम शास्त्रभावफलाप्तयेऽसावधिरोहिणीव । व्याख्या पदस्थानमुखाविगम्या* * * ॥" अत एव तत्सारभूता विषमपदटिप्पणी संयोजिता मूलेन सह ।
टीका कर्तृसमय निर्णयविषये टीकान्तिम लेखे “तपागच्छ नाय कधी मुनिसुन्दरसूरिनिर्भितस्याध्यात्मकल्पद्रुमस्य सकलशास्त्रारविन्दप्रयोतनमहोपाध्यायश्री कल्याणवि जयगणि शिष्योपाध्यायश्री धनविजय गणिविरचितायामधिरोह गीटीकायां साम्यसर्वस्वनाम्नी षोडशी पदपद्धतिः" इत्येव लभ्यते ।
जैनाचार्य श्री कमलविजयसूरिभिः कृपया दत्तस्य हस्तलिखितस्य सटीकस्य पुस्तकस्यानुरोधेन प्रकरणरत्नाकरनाम्नि जैनधर्मग्रन्थसङ्ग्रहे मुद्रितस्य आदर्शपुस्तकस्य चाधारेण ग्रन्थरत्नस्यास्य संशोधनमकारि यथामति । " श्लोकोवरं परमतत्वपथप्रकाशी न ग्रन्थकोटिपठनं जनरञ्जनाय । सञ्जीवनीति वरमौषधमेकमेव व्यर्थश्रमप्रजननो न तु मूलभारः ॥" इति हृदयप्रदीपोक्तिं मनसि निधाय शास्त्रसारभूतस्यास्य पठनपाठनाभ्यां ममोत्साहं वर्द्धयिष्यन्ति कृपालवः साधव इत्यहमाशंसे । उक्तं हि कविकुलगुरुणा " क्लेशः फलेन हि पुनर्नवतां विधत्ते" इति सज्जनसेवाभिलाषी,
शिवरामः ।
For Private And Personal Use Only